________________
पाणिनिसूत्रव्याख्या
१५४५ । लुप च । (४. ३. १६६) जम्ब्वाः फलं जम्बूः । ‘बार्हतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् । II. iv. 19. इत्यमरः ।
वा० । पुष्पमूलेषु बहुलम् । (2950.) अस्मिन्नेव ग्रन्थे श्लो. 1449, केतक्याः पुष्पं केतकम् । अणो लुकि नादिवृद्धिः । 'लुक्तद्धितलुकि' (सू. 1408) इति स्त्रीप्रत्ययस्यापि लुक् । ग्घुवंशे-IV. 55.
मुरलामारुतोद्धृतमगमत्कैतकं रजः । तद्योधवारवाणानामयनपटवासताम् ॥ 1496 ।।
अत्र न।
अस्मिन्नव ग्रन्थे लो० 607. मघासु मघायुक्तकाले । 'नक्षत्रेण युक्तः कालः' (सू. 1204) इत्यणि 'लुबविशेषे' (सु. 1205 ) इति तस्य लुपि 'लुपि युक्तवत्' (सू. 1294) इति प्रकृतिलिङ्गवचने 'नक्षत्रे' (सू 642) इति वैकल्पिकी सप्तमी।
१५४६ । हरीतक्यादिभ्यश्च । (४. ३. १६७).
एभ्यः फलप्रत्ययस्य लुप स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः । हरीतक्यादिः-४. ८५.
१५४७ । कंसीयपरशव्ययोर्यजनौ लुक्च । (४. ३. १६८)
- कंसीयपरशव्यशब्दाभ्यां या स्तः छयतोश्च लुक् । कंसः पानभाजनम् । 'वृतृ' (उ. सू. 342) इत्यौणादिकः सप्रत्ययः । कंसाय हितं कंसीयम् । तस्मै हितं' (स. 1665) इति छः ! तस्य विकारः कांस्यम् । यञ् । परशवे हितं परशव्यम् , तस्य विकारः पारशवः ।
अस्मिन्नेव ग्रन्थे श्लो० 1032. कंसीयस्य विकारः कांस्यः। तालादिः । या । छस्य लुक्।