________________
पाणिनिस्सूनव्याख्या
गान्धर्वभूयिष्ठतया समानता
स सामवेदस्य दधौ बलोदधिः ॥ 1493 ॥ गन्धर्वा अधाः तत्कर्म गान्धर्वम् । अत्र ।
माघे-IV. 13.
यत्राधिरूढेन महीरुहोच्चै
रुन्निद्रपुष्पाक्षिसहस्रभाजा। सुराधिपाधिष्ठितहस्तिमल्ल
लीलां दधौ राजतगण्डशैलः ।। 1494 ॥ रजतस्य विकारो राजतः । अञ् । अस्मिन्नेव ग्रन्थे लो० 64. काञ्चनस्य विकार काश्चनीम् । अनि ङीप् ।
अस्मिन्नेव ग्रन्थे श्लो. 33. हेम्नो विकारो हैमी । अञ् । 'नस्तद्धिते' (सू. 679 ) इति टिलोपः । रजतादि:--- ४. ८३.
१५३५ । उष्ट्राद्वज्ञ ( ४. ३. १५७)
प्राण्यञोऽपवादः । औष्ट्रकः । ' गोत्रोक्षोष्ट' (सू. 1246) इति समूहे वुन् ।
१५३७ । एण्या ढञ् । (४. ३. १५९) ऐणेयम् । एणस्य तु ऐणम् । 'ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ' II. V. 8. इत्यमरः।
अस्मिन्नेव ग्रन्थे श्लो० 59. एणी हरिणीभेदः । तद्विकारभूता ऐणेयी । तस्यां त्वचि।
अनर्घराधवे-IV. 27.
जटां धत्ते मूर्धा परशुधनुषी बाहुशिखरं
प्रकोष्ठो रौद्राक्षं वलयमिषुदण्डानपि करः ।