________________
४७६
पाणिनिसूत्रव्याख्या
. भट्टकाव्ये-. 48.
नलश्चित्रीयमाणोऽसौ रत्नहेममयो मृगः ।
क्यामुखीन:सीतायाः पुप्लुवे बहु लोभयन् ।। 1480 ॥ रजानां हेन्नश्च विकारो रनहेममयो मृगस्सन् । 'मयड् वैतयोः । (सू. 1523 ) इति विकारे मयट् ।
१४६३ । प्रभवति । ( ४. ३. ८३) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । रघुवंशे-IV. 45.
स सैन्यपरिभोगेन नजदानसुगन्धिना ।
कावेरी सरितां पत्युश्शनीयामिवाकरोत् ॥ 1481 ।। कावेरी।
तस्मै प्रभवति सन्तापादिभ्यः' (सु. 1766) सन्तापाय प्रभवति सान्तापिकः । सांप्रामिकः ।
१४६४ । विदूराज्यः । (४. ३. ८४) दिदुरात्प्रभवति वैदूर्यो मणिः ।
अस्मिन्नेव ग्रन्थे श्लो० 618. विदुरात्प्रभवन्तीति वैदूर्याणि । वालवायजमणयः । ज्यप्रत्ययः । १४६८ । शिशुक्रन्दयमसमद्वन्द्वेन्द्रजननादिभ्यश्छः। (४. ३. ८८)
शिशूनां क्रन्दनं शिशुक्रन्दः । तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् ! क्लीवत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् विरुद्धभोजनीयम् । किरातार्जुनीयव्याख्यायां-I..
मल्लिनाथकविस्सोऽयं मन्दात्मानुजिघृक्षया । तत्किरातार्जुनीयाख्यं काव्यं व्याख्यातुमिच्छति ॥ 1482 ॥