________________
पाणिनिसूत्रव्याख्या
१४५८ । पितुर्यच्च । (४. ३. ७९.) चात् ठञ् । पित्र्यम् पैतृकम् । अस्मिन्नव ग्रन्थे श्लो० 1828. पितुरागतं पित्र्यम् । अनेन यत् । मस्मिन्नेव ग्रन्थे श्लो० 589. पितुरागतं पैटकम् । पितुर्यच्चेति चकारात्
ऋतष्ठन।
चम्पूभारते-- IV. 76. शिलीमुखाभ्यां शिवसव्यसाचिनोः
समुज्झिताभ्यां युगपत्किरेस्तनौ । सम विभज्यायुरभुज्यत क्षणात
सहोदराभ्यामिव पैतृकं धनम् ॥ 1473 || पैटकम् । पूर्ववट्ठन् । १४६० । नः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । (७. ३. ३०)
नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा निदादौ परे।
आशौचम् अशौचम् । आनैश्वर्यम् अनैश्वर्यम् । आक्षेत्रज्ञम् अक्षैत्रज्ञम् । आकौशलम् । अकौशलम् । आनैपुणम् अनैपुणम् । चम्पूभारते-I. 50.
सामोदो भीमसम्भूतिसम्भूताशौचवत्तया ।
सङ्कुचन्निव संस्पर्शे समीरो मन्दमाववौ ॥ 1474 ॥ आशौचम् । उभयत्र वृद्धिः। अनर्घराघवे---V. 3.
ग-ततश्च शावाशौचमास्थितस्य क्षत्रियस्य प्रतिषिद्धमस्त्रग्रहणमिति छिद्रान्वेषिमिर्जनस्थानवास्तव्यैः खरदूषणप्रभृतिभिस्तत्र विराधो नाम राक्षसः तीक्ष्णः प्रहितः ॥ 1475 ॥