________________
पाणिनिसूत्रव्याख्या
१४४३ । अशब्दे यत्वावन्यतरस्याम् । (४. ३. ६४)
पक्षे पूर्वेण छः : मद्वर्यः : मद्वर्गीणः । मद्वर्गीयः ।
अस्मन्नेव ग्रन्थे श्लो० 1455. रघुबर्गे भवा रघुवर्या । वर्गान्ताचेत्यनुवृत्तावनेन यत् !
१४४४ । कर्णललाटात्कन्नलङ्कारे । ( ४. ३. ६५)
कर्णिका । ललाटिका। चम्पूभारते-IV. 2.
ग-तत्क्षणमतितितिक्षया त्वमष्टादशकृत्वो दृष्टापजयोऽस्ययं पुनरितरः किशोर इति कृष्णावुभावप्यवधीर्य हिडिम्बवककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायानकीरात्मनः संमुखीनं दृढतरपरिकरबन्धं जरासन्धं गन्धवहनन्दनः पञ्चदशदिनानि नियुष्य तेषां त्रिभागपरिसङ्ख्याभिधानपदाभिधेयेन सह योजयामास ॥ 1467 ।।
कर्णिका । कन् । 'प्रत्ययस्थात् ' (सू. 463 ) इति स्त्रियां कात्पूर्वस्येत्वम् ।
कुमारसंभवे-V. bb.
तदा प्रभृत्युन्मदना पितुर्गुहे
ललाटिकाचन्दनधूसरालका। न जातु बाला लभते स्म निर्वति
तुषारसङ्घातशिलातलेप्वपि ।। 1468 ॥ ललाटस्यालङ्कारः ललाटिका तिलकः । कन्प्रत्ययः । पूर्ववत् ।
१४५३ । तत आगतः । (४. ३. ७४) स्रुघ्नादागतः स्रौनः ।
अस्मिन्नेव ग्रन्थे श्लो० 1848. देवेभ्य आगतानां देवीनाम् । मनुष्येभ्य आगतानां मानुषीणाम् । अनेनाणि ' टिड्ढाण' (सू. 470 ) इत्यादिना ङीप् ।