________________
पाणिनिसूनव्याख्या दक्षिणा इत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः । रघुवंशे-IV. 62.
संग्रामस्तुमुलस्तस्य पाश्चात्यैश्वसाधनैः ।
. शाकूजितविज्ञेयप्रतियोधे रजस्यभूत् ।। 1385 ।। पाशात्यैः । त्यक् । चम्यूभारते-VIII. 11. पाश्चात्यपाथोनिधिपाश्वभागे
सम्पूर्य कुक्षि सलिलस्य पूरैः । सजातियथाच्च्युतिमाश्रितस्य .
क्रम दधौ यो घनशावकस्य ।। 1386 ।। पश्चादवः पाश्चात्यः । पश्चिमः । रघुवंशे-~-IV. 84.
पौरस्त्यानेवमाक्रामस्तांस्ताञ्जनपदाजयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ।। 1887 ॥ पुरोभवान् पौरस्त्यान् प्राच्यान् । त्यक् । अनर्घराघवे-II. 78.
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कंपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति । समन्तादुन्मीलदहलजलबिन्दुस्तबकिनो
यथा पुलायन्ते प्रतिगुडकमेणाङ्कमणयः ॥ 1888 ॥ पौरस्त्यायां पूर्वस्यां दिशि । मनपराघवे-IV. 3. इतः पौरस्त्यायां ककुभि विवृणोति क्रमदल- -
तमिसामर्माण किरणकलिकामम्बरमणिः ।