________________
দার্জিলিলা अस्मिन्नेव अन्थे श्लो० 1305. अनूढपूर्वायाः स्त्रिया वोढा कौमारः। तस्य स्त्री कौमारीम् । अनेन पाणिग्रहणापूर्वत्वेऽन् प्रत्ययान्तनिपाते ङीप् । अकृतपूर्वदारपति लब्यवती कौमारी मिति जयमङ्गलः ।
१२१५ । ततोद्धतममत्रेभ्यः (४. २. १४)
शरावे उद्धरः शासव ओदनः । उद्धरतिरिहोद्धरणपूर्वके निधाने वर्तते । तेन सप्तमी ! उद्धृत्य निहित इत्यर्थः ।
१२१६ । स्थाण्डिलाच्छयितरि व्रते । (४. २. १५) स्थण्डिले शेते स्थाण्डिलो भिक्षुः ।
१२१७ । संस्कृतं भक्षाः । (४. २. १६) सप्तम्यन्तादण् स्यात्संस्कृतेऽर्थे । भ्राष्ट्र संस्कृता भ्राष्ट्रा यवाः ।
१२१८ । शूलोखाद्यत् । (४. २. १७) अणोऽपवादः । शूले संस्कृतं शूल्य मांसम् । उखा पात्रविशेषः । तस्यां संस्कृतमुख्यम् ।
अस्मिन्नेव ग्रन्थे श्लो० 1060. शूले काष्ठाग्रे, उखायां स्थाल्यां संस्कृतं मांस शूल्यमुख्यञ्च ।
१२१९ । दधष्ठक् । (४. २. १८) दनि संस्कृतं दाधिकम् ।
१२२० । उदश्वितोऽन्यतरस्याम् । (४. २. १९) ठक् स्यात् । पक्षेऽण् ।
१२२१ । इसुसुक्तान्तात्कः । (७. ३. ५१) इस्, उस्, उक् त एतदन्तात्परस्य ठस्य कः स्यात् । उदकेन श्वयति वर्धत इत्युदश्चित् । तत्र संस्कृतः औदश्वित्कः । औदश्वितः ।
अस्मिन्नेव ग्रन्थे श्लो० 434. भवत्या इदं भावत्कं भवदीयम् । 'भवतष्ठक्छसौ' (स, 1839) इति दकि, पुर्वदावे ठक्छ सोरुपसङ्ख्यानात्पुंवद्भावेऽनेन कः ।