________________
४०८
पाणिनिलूतव्याख्या
दर्शित: ।। अस एव भावापत्यार्थे फिन् ।
भट्टिकाव्ये-VII. 92.
निवामहे न गच्छामः कौसल्यायनिवल्लभाम् !
उपलम्भ्यामपश्यन्तः कौमारों पजतां वर ।। 1305 || कोसलानां राजा कोसलः । तत्यानत्य पुमान् कोसल्यायनिः । उत्तरकोसलेश्वरापत्यम् दाशस्थो रामः : अनेन परमप्रकृतेः कोसलशब्दादपत्यार्थे फिन् । तत्सन्नियोगात्कोसलशन्दन्त्य कौसत्यभावनिपातः । अत एव भाप्यवार्तिकयोरपि कोसरकर्मारेत्यादिना मूलमतेरेव प्रत्ययो दर्शितः : कौसल्याया अपत्यमित्यर्थे फिजिति जयमङ्गलादयः । तदसत् । तदा स्त्रीभ्यो ढकि कौसलेय इति स्यात् । फम्यायन्नादेशः ।
११८५ मनोजातावश्यतो पुक् च । (४. १. १६१) मानुषो मनुष्यः । भट्टिकाव्ये-IV. 22.
मानुपानभिलप्यन्ती रोचिष्णुर्दिव्यधर्मिणी ।
त्वमप्सरायमाणेह स्वतन्त्रा कथमञ्चसि || 1806 ।। मनोरपत्यानि मानुपाः । अञ् बुक् च । रघुवंशे-II. 38.
तमार्यगृह्य निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिमोरुसत्त्वं निजगाद सिमः ।। 1307 ॥ मनुष्यः । ११८६ । जनपदशब्दात्क्षत्रियादञ् । (४. १. १६८)
जनपदक्षत्रिययोर्वाचकादञ् स्यादपत्ये । ऐक्ष्वाकः । 'दाण्डिनायन' (सू.1145) इति सूत्रे निपातनाहिलोपः ।
वा० । पूरोरण वक्तव्यः । ( 2670.) पौरवः ।
वा० । पाण्डोर्यण् । (2671.) पाण्ड्यः।