________________
४००
पाणिनिसूत्रव्याख्या मावे--1X. 87.
इत्थ नारीवटयितुमलं कामिभिः काममासन्
पालेयांशोम्सपदि रुचयश्शान्तनानान्तरायाः । आचार्यत्वं रतिषु विलसन् मन्मथश्रीविलासा
हीप्रत्यूहपशमकुशलाः शीधनश्चक्रुरासाम् : 1287 ॥ प्रालेय पूर्ववत् । ११४५ । दाण्डिनायनहास्तिनायनाथवेणिकजेलाशिनेयवाशिनायनिभ्रौण
__हत्यधैवत्यसारवैश्वाकमैले यहिरण्मयानि । (६. ४. १७४) एतानि निपात्यन्ते । मैत्रेयः । मैत्रेयी ।
अमिन्नेव ग्रन्थे श्लो० 1265. इक्ष्वाकूणामयमैक्ष्वाकः । अनेन निपातनादुकारलोपः। रघुवंशे--XV. 49.
अथ धूमाभिताम्राक्ष वृक्षशाखावलम्बिनम् ।
ददर्श कञ्चिदैक्ष्याकस्तपस्यन्तमधोमुखम् !! 1288 ॥ इक्ष्वाकुवंशप्रभव ऐश्वाको रामः । ' कोपधादण' (सू. 1356) इत्यणि कृते ऽनेन उकारलोपनिपातः। रघुवंशे-XV. 61.
श्लाघ्यस्त्यागोऽपि वैदेयाः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेस्सैवासीद्यस्माज्जाया हिरण्मयी ।। 1289 ।। हिरण्मयी सौवर्णी । अनेन निपातः । पूर्ववत् । . अस्मिन्नेव ग्रन्थे श्लो० 48. हिरण्यस्य विकारः हिरण्मयी । अनेन निपातः पूर्ववत् ।
अस्मिन्नेव ग्रन्थे श्लोक 109. हिरण्यस्य विकारो हिरण्मयम् । पूर्ववत् । स्त्री चेट्टित्वान्डीप् । अथर्वाणमधीते । आणिकः । वसन्तादिभ्यष्ठक् । निपातनाहिलोपो न ।
११४७ । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । (२. ४. ६५)