SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९८ पाणिनिसुतव्याख्या चटकस्य चटकाया वा अपत्यं चाटकरः ! तयोरेव व्यपत्यं चटका | अजादित्वाद्वाप् । ' चटकः कलविङ्कः स्वात्तस्य स्त्री चटका तयोः । पुमपत्ये चाटकैरः ख्यपत्ये चटकैव हि ॥ II. V. 19. इत्यमरः । ११३५ | गोधाया क ( ४. १. १२९ ) शुभ्रादित्वाड्ढक् । ' त्रयो गौधेरगौधा र गौधेया गोधिकात्मजे II, v. 6. इत्यमरः । वा० । स्त्रियामपत्ये लुम्वक्तव्यः ! (2628. ) गौधारः ११३६ | आरगुदीचाम् । ( ४. १.१३० ) ः । ११३७ | क्षुद्राभ्यो वा । ( ४. १. १३१ ) अङ्गहीनाः शीलहीनाश्च क्षुद्राः । ताभ्यो वा ढक् । पक्षे ढक् । काणेरः काणेयः । दासेरः दासेयः । कुलटा असती । 'कौलटेयः कौलटेर: भिक्षुकी तु सती यदि । तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजे ॥ II. vi. 26, 27 " इत्यमरः । ' कुलटाया वा ' ( सू. 1132 ) इति वा इनङादेशः । ११३८ । पितृष्वसुश्छण् । ( ४. १. १३२ ) पैतृष्वस्रीयः " ११३९ । ढकि लोपः । ( ४. १. १३३ ) . पितृष्वसुरन्तस्य लोपः स्याड्ढकि । पैतृष्वसेयः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy