________________
अपत्याधिकारविप्रकरणम्
३९१
एभ्यो गोत्रे फखा । द्रौणायणः द्रौणिः । पार्वतायनः पार्वतिः । जैवन्तायनः जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ।
११०६ | अनुष्यानन्तये विदादिभ्योऽञ् ( ४.१.१०४ )
पुत्रस्यापत्यं पौत्रः । विदादिः – ४. १३.
}
११०७ । गर्गादिभ्यो यञ् । ( ४.१.१०५ )
गोत्र इत्येव । गार्ग्यः । वात्स्यः । गर्गादिः ४. १४ .
अस्मिन्नेव ग्रन्थे श्लो० 626. जमदमेरपत्यं पुमान् जामदग्न्यः परशुरामः । गर्गादिपाठादपत्येऽपि गोत्रत्वारोपाद्यञ् । साक्षादपत्यत्वविवक्षायां तु ऋम्यगिजाम भवति ।
किरातार्जुनीये - XIII. 62.
अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते
तापसेषु चरितार्थमायुषम् ॥ 1269 ॥
जामदग्न्यः । जमदग्नेरपत्यं, यञ् ।
लुक् न ।
११०८ | यञञोश्च । ( २. ४. ६४ )
बहुत्वे लुक् स्यात् । गर्गाः । वत्साः । बिदाः । उर्वाः । पौत्राः । दौहित्राः ।
1
1
१११५ । शिवादिभ्योऽण् ( ४. १. ११२ )
गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । शिवादिः - ४. १६. पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । तिकादिः - ४ २२ शुभ्रादित्वाड्ढक । गाङ्गेयः ।
1
"
शुभ्रादिः -- ४.
१७.
अस्मिन्नेव ग्रन्थे इलो ० 1264. विश्रवसोऽपत्यं पुमान् रावणः । विश्रश्वशब्दात् शिवादित्वादणि विश्रवसो विश्रवणरवणाविति अन्तर्गणसूत्रेण विश्रवरशब्दस्य वृतिविषये रवणादेशे रावण इति सिद्धम् ।