________________
पाणिनिलूनच्याख्या
अस्तिन्नेव ग्रन्थे श्लो० 694. पश्यतोहरः । पश्यन्तमनात्य हरः। पचायचं । पठो बानादरे : सु. 633 ) इति षष्टी । वाग्द्रिगिति अलुक् ।
चम्पूभारते ---- III. 33. चक्राशीमदपश्यतोहरचलच्छम्पा समुन्मेषणः
पुष्पत्केतकगन्धसिन्धु विलुठत्पुष्पन्धयान्धीकृतः । भेदस्वीकृतके किनीकलकलौघक्कराशामुखैः
पान्थानामपमृत्युभिः कतिपयैः प्रादुर्बभूवे दिनः ।। 1138 ।। पश्यतोहरः । पूर्ववत् । अनर्घराघवे- V. 6.
ग-- भो वाचोयुक्तिज्ञ सर्वेषां विद्रावणः खल्वहमिति समस्य व्याहृतमन्यथाभिमन्धाय वाक्छलेन प्रत्यवतिष्ठमानो निगृहीतोऽसि । सन्मुञ्च मां भिक्षायै !! 1139 ॥
वाचोयुक्तिः । उक्तिमत्युक्तयादिः । अलुक् । चम्पूरामायणे-I. 97.
ग-ततो गीर्वाणगणपार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं तत्र तप:प्रत्यूहः प्रत्युद्धत इति पश्चिमायां दिशि पुष्करे पुष्कलं तपश्चरन्तममुं अम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थ बह्वीभिगोभिः क्रीत्वा नरपशुतां नीयमानस्तावचीकस्य मध्यमपुत्रः शुन शेफः शरणमयाचत ॥ 1140 ।।
९८० । पुत्रेऽन्यतरस्याम् । (६. ३. २२) षष्ठ्याः पुत्रे परे अलुम्वा निन्दायाम् । दास्या:पुत्रो दासीपुत्रः । निन्दायां किम् । ब्राह्मणीपुत्रः।
अस्मिन्नेव ग्रन्थे ग° 177. क्षत्रियायाःपुत्रः । । अलुक् । ९८१ । ऋतो विद्यायोनिसंवन्धेभ्यः । (६. ३. २३)
विद्यासंबन्धयोनिसंबन्धवाचिनः ऋदन्तात् षष्ठ्या अलुक् । होतुरन्तेवासी। होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः ।