________________
३३३
पाणिनिव्याख्या
किरामार्जुनी-XT11 28.
अनेनालुक् ।
अपयन्धनुषः शिवान्तिकत्थैविवरेसद्भिरभिख्या जिहानः । युगपद्ददृशे विशन्वराहं
तदुपोढैश्च नभश्वरैः पृषत्कः ॥ 1126
विवरे सीदन्तीति विचरेसदः । 'सल्लू' (सु. 2975 ) इति किपू ।
९७३ | प्रावृट्शरत्कालदिवां जे । ( ६.३.१५ )
प्रावृषिजः । शरदिजः । कालेजः । दिविजः ।
भट्टिकाव्ये -- V. 54.
एष प्रावृषिजाम्भोदनादी भ्राता विरौति ते । ज्ञातेयं कुरु सौमित्रे भयात्त्रायख राघवम् || 1127 ||
प्रावृषि जातः प्रावृषिजः । सप्तम्या अलुक् ।
माघे - XVI. 75.
इति पूर इवोदकस्य यः
सरितां प्रावृषिजस्तटद्रुमैः ।
कचनापि महानखण्डित
प्रसरः क्रीडति भूभृतां गणैः ॥ 1128 ॥
प्रावृषिजः । पूर्ववत् ।
९७५ । वकालतनेषु कालनाम्नः । ( ६.३.१७ )
सप्तम्या विभाषयालुक् स्यात् । घे । पूर्वाह्णेतरे पूर्वाह्नतरे । पूर्वा तमे पूर्वाहृतमे । काले । पूर्वकाले पूर्वाह्नकाले । तने । पूर्वतने पूर्वाह्णतने ।
९७६ । शयवासवासिष्वकालात् । ( ६. ३. १८ )
विभाषयाल्लुक् । खेशयः खशयः । ग्रामेवासः ग्रामवासः । ग्रामवासी ग्राम - वासी । हलदन्तादित्येव । भूमिशयः ।
न