________________
ક્ર્
}
पुरुषस्यायुः पुरुषायुषम् | भत्यन्तसंयोगे द्वितीया । वर्षशतमित्यर्थः । पुरुषायुष जीवन्तीति पुरुषायुषजीविन्यः । ' अत्यन्तसंयोगे च ' ( सू. 691 ) इति समासः ।
अन्मिन्नेव ग्रन्थे श्लो० 1060. ऋचश्च यजूंषि च ऋग्यजुषम् ।
माघे - XIV. 21.
सप्तभेदकर कल्पिलस्वर साम सामविदगजगौ ।
तत्र सूतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ 1094 ॥
समासान्तः द्वन्द्वैकवद्भावः ।
माघे - V. 68.
मृत्पिण्डशेखरित कोटिभिरर्धचन्द्र
शृङ्गैः शिखागतलक्ष्ममलं हसद्भिः ।
उच्छृङ्गितान्यवृषभाः सरितां नदन्तो
रोधांसि धीरमपचरिरे महोक्षाः ॥ 1095 ||
महान्न उक्षाणो महोक्षाः ।
रघुवंशे - VI. 78.
महेन्द्रमास्थाय महोक्षरूपं
यः संयति प्राप्तपिनाकिलीलः ।
चकार बाणैरसुराङ्गनानां
महोक्षाः ।
गण्डस्थली : प्रोषित पत्रलेखाः || 1096 ||
महोक्षः ।
रघुवंशे - IV. 22.
मदोदयाः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥ 1097 ॥