________________
सर्वसमासान्त्रणा माघे--III. 81.
लवङ्गमालाकलितावतंसा
स्ते नालिकेरान्तरपः पिबन्तः । आस्वादिताद्रक्रमुकाः समुद्रा
दभ्यागतस्य प्रतिपत्तिमाधुः ।। 107510 मालिकेरान्तरित्यव्ययम् । नालिकेरफलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे तु समासान्तप्रसङ्गात् ।
अस्मिन्नेव ग्रन्थे श्लो० 166. विगता धूर यस्याः सा विधुरा । समासान्त अकारप्रत्ययः । माधे-~XVIII.T.
सक्रीडन्ती तेजिताश्वस्य रागा
दुद्यम्यारादनकायोस्थितस्य । रहोमाजामक्षः स्यन्दनानां
हाहाकार प्राजितुः प्रत्यनन्दत् ।। 1076 } अझस्य धूरक्षथः । अनक्ष इति निषेधान्न समासान्तः । चम्पूभारते-~-II. 36.
ग-ततस्ते वन्याशनधन्या धारितवसुधा सुधाशनाकृतयः प्रावृपमिव अकबलाक्रान्तां पातालभुवमिव प्रत्यहं वर्धमानबलिशोकामझराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठां रविरथामधुरमिवैकचक्रां पुरीं क्रमादाक्रम्य कस्यचिद्गृहमेधिनो गृहमध्यमेत्य सुखमध्यवात्सुः ।। 1077 ॥
रविरथाक्षस्य धुः रविरथाक्षधूः ताम् ।
अस्मिन्नेव ग्रन्थे लो० 629. श्रुत्योः पन्थाः श्रुतिपथः । अकारप्रत्ययः । तत्पुरुषः। रघुवंशे-~IV. 38.
स तीर्ला कपिशां सैन्यैर्वद्विरदसेतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ 1078 ॥ उस्कलै राजभिरादर्शितः पन्या यस्य सः उत्कलादर्शितपथः । बहुव्रीहिः ।