________________
पाणिनिमूत्रव्याख्या
" सङ्ख्याया अवयवे उयप ! (सू. 1843 ) अनर्धराघवे --- 1.
त्वं तास्ताः स्मृतवान्चो दशतयोस्त्वत्प्रीतये यज्वभिः
स्वाहाकारमुपातिं हविरिह बेताग्निराचामति । त्वां क्षीरोदजलेशयं ऋतुलिहः पृथ्वीमवातीतर
नद्वता दशकन्धरप्रभृतयो निग्राहितारम्त्वया !! 70!
"द्वित्रिभ्यां तयस्यायब्वा ' 1 (सु. 1844) माघे --II. 3.
जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।
व्यद्योतिष्ट सभावेद्यामसौ नरशिखित्रयी ॥ 71 ॥ 'उभादुदात्तो नित्यम् ' । (सू. 1845 ) माघे-XI. 27.
मुदितयुवमनस्कास्तुल्यमेव प्रदोघे
रुचमदधुरुभय्यः कल्पिता भूषिताश्च । परिमलरुचिराभियंकृतास्तु प्रभाते
युवतिभिरुपभोगान्त्रीरुचः पुष्पमालाः ॥ 72 ॥ 'ओजः सहो' (सू. 1577 ), इति ठक् । माघ-IX, 59. अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी !! 78 !! 'तत्प्रत्यनु' (सू . 1578), इति ठक् । भट्टिकाव्ये- V. 94
तां प्रातिकूलिकी मत्वा जिहीर्घीमविग्रहः ।
बाइपपीडमालिष्य जगाहे द्यां निशाचरः !! 74 13 'तत्र नियुक्त' (सू. 1620 ) इति ठक् । रघुवंशे-VI._59.
अथोरगाव्यस्य पुरस्य नार्थ दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् || 75 || द्वारे नियुक्ता दौवारिकी।