________________
पाणिनिसूत्रव्याख्या
"एण्या ढञ्' । (सू. 1587 ) अनघराघवे--II. 28. वारांस्त्रीनभिषुण्वते विदधते वन्यैः शरीरस्थिती
रैणेय्यां त्वचि संविशन्ति वसते चापि त्वचस्तारखी; 'तत्पश्यन्ति च धाम नाभिपततो यचर्भिणे चक्षुषी
धन्यानां विरजस्तमा भगवती चर्येयमाहादते ।। 50
अण । ' तस्येदमि ' (सू. 1500) त्यण । माघे~-II. .
गुरुकाव्यानुगां विभ्रञ्चान्द्रीमभिनभः श्रियम् ।
सार्धमुद्धवसीरिभ्यामथासावासदत्सदः ।। 60 11 वन्द्रस्येयं चान्द्री। 'कर्मण्यण् ' । (सू. 2918) रघुवंशे-- IV. 20.
इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
आकुमारकथोद्धात शालिगोप्यो जगुर्यशः ।। 61 11 शालीन् गोपायन्तीति शालिगोप्यः । रघुवंशे-XIX. 85.
वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः ।
शिल्पकार्य उभयेन वेजितास्तं विजिमनयना व्यलोभयन् ।। 61 शिल्पं कुर्वन्तीति शिल्पकार्यः । माधे-III. 51.
चिसिया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यानतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ।। 68 ।। कपोतान्पालयन्तीति कपोतपाल्यः । 'प्राणिरजतादिभ्योऽञ्' (सू. 1532 ) अस्मिन्नेव ग्रन्थे श्लो० 33. हैम.