________________
कर्मधारयसमासप्रकरणम् २४७ अनर्घराघवे- IV. 1.
तत्तादृशं कथमुदेति मनुष्यलोके
तेजोऽद्भुतं निरभिसन्धि न तावदेतत् । तान्येव चास्य चरितानि दशाननस्य
धिक् चिन्तया रजनिरक्षिषु नः प्रभाति ।। 872 ॥ नः इत्येकत्वे बहुवचनम् । भट्टिकाव्ये-IV. 6.
यूयं समष्यथेत्यन्मिन्नासिष्महि वयं बने । __दृष्टाः स्थ स्वस्ति बो यामः स्वपुष्यविजितां गतिम् ॥ 8:3i ज्यामित्येकत्वे बहुत्वम् ।
८१९ ! फल्गुनीपोष्ठपदानां च नक्षते । (१.२.३०
द्वित्वे बहुत्वप्रयुक्तकार्य वा स्यात् । पूर्वे फल्गुन्यौ । पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे । पूर्वाः प्रोष्ठपदाः । कुमारसंभवे- VII. 6.
मैत्रे मुहूर्ते शशलाञ्छनेन
योग गतासूत्तरफल्गुनीषु। . तस्याः शरीरे प्रतिकर्म चक्रु
बन्धुस्त्रियो याः पतिपुत्रवत्यः ।। 874 || उत्तरफल्गुनीषु । फल्गुनीनक्षत्रे । एकस्मिन्नपि बहुवचनम् ।
८२१ । स नपुंसकम् । (२. ४. १७) समाहारे द्विगुर्द्वन्द्वश्च नपुंसक स्यात् । पञ्चगवम् । दन्तोष्ठम् । वा । अकारान्तोतरपदो द्विगुः स्त्रियामिष्टः । (1556.)
वा । मावन्तो वा । (1557.) पञ्चखट्टी पञ्चखटम् ।