________________
पाणिनिसूत्रव्याख्या
कुत्सितः पुरुषः कापुरुषः । कुशब्दस्य कादेशः ।
अस्मिन्नेव ग्रन्थे लो० 610. कुत्सितमझ काक्ष तेन काक्षेणा। कुदृष्टया ! न्द्रियवाचिनाक्षशब्देन तद्विशेषचक्षुः लक्ष्यते । ' का पथ्यक्षयोः । (. 1030) इति कुशब्दस्य तत्पुरुषे कादेशः । 'गतिश्च' (सू. 28 ) इत्यनुवर्तमाने ।
७६२ । ऊर्यादिच्चिडाचश्च । (१. ४. ६१) एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकत्यय । कर्यादि:-१. ५. माघे--II. 30.
आत्मोदयः परज्यानिय नीतिरितीयती ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ 782 ॥ ऊरीकृत्याङ्गीकृत्य । अनेन सूत्रेण विहितायां गतिसंज्ञायां कुगति' (सू. 782) इति समासे क्त्वो ल्यबादेशः । भट्टिकाव्ये- V. 72.
नोदकण्ठिष्यतात्यर्थ त्वामैक्षिष्यत चेल्मरः ।
खेलायन्ननिशं नापि सताकृत्य रतिं वसेत् ॥ 788 ।। सतःकृत्य सहचरीकृत्य । ऊर्यादित्वेन गतित्वात्समासे क्त्वो ल्यप् । चम्पूरामायणे-- I. 29.
उच्चस्ये ग्रहपंचके सुरगुरौ सेन्दौ नवम्यां तिथौ
लमे कर्कटके पुनर्वसुयुते मेष गते पूषणि । निर्दग्धं निखिलाः पलाशसभिधो मेध्यादयोध्यारणे
राविर्भूतमभूतपूर्वमपरं यत्किंचिदेकं महः ।। 784 ॥ आविर्भूतं ऊर्यादित्वेन गतित्वात् 'कुगति ' (सू. 761 ) इति समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 510: करदीकृताः। 'कृभ्वस्ति' (सू. 2117 ) इति च्चि: । अनेन गतिसंज्ञा । 'कुगति' (सू. 761) इति समासः ।