SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ११८ पाणिनिसूलव्याख्या कुमारसम्भवे-VII. 28. अखण्डित प्रेम लभस्व पत्यु रित्युच्यते तामिरुमा म नम्रा । तया तु तस्याधशरीरमाजा पश्चात्कृताः स्निग्धजनाशिषोऽपि ! 72548 अर्ध शरीरस्यार्धशरीरम् । एकदेशिसमासः रघुवंशे----VL. 78. ऐरावतास्फालनविश्लथं यः सङ्घट्टयन्नङ्गदमङ्गदेन । उधेयुषः खामपि मूर्तिमप्रया मर्धासनं गोत्रभिदोऽधितष्ठौ !! '726 अर्धमासनस्यार्धासनम् । एकदेशिसमासः । रघुवंशे--VI, 75. यस्मिन्महीं शासति मानिनीनां निद्रा विहारार्धपथे गतानाम् । बातोऽपि नास्त्रेसयदंशुकानि को लम्बयेदाहरणाय हस्तम् ।। 727 !! अर्घ चासौ पन्थाश्चेति विग्रहः । समप्रविभागे प्रमाणाभावात् नैकदेशिसमासः । अस्मिन्नेव अन्थे श्लो० 614, अर्धे रात्रेरर्धरात्रः । एकदेशिसमासः । 'अहःसर्व' (सू. 787 ) इत्यादिना समासान्तोऽच् । 'राबाहाहाः पुंसि' (सु. 314) इति पुंस्त्वम् । ७१४ । द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । (२. २. ३) एतान्येकदेशिना सह प्राग्वत् । द्वितीय भिक्षाया द्वितीयभिक्षा । अन्यतरस्याग्रहणसामर्थ्यात् 'पूरणगुण' (सू. 705) इति निषेध बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy