________________
अव्ययीभावसमासप्रकरणम्
१८३ काला इत्येव । कालाननोः (सू. 568) इति द्वितीया । मुहूर्त सुख मुहर्तसुखम् ।
अस्मिन्नेव ग्रन्थे श्लो० 406. वर्षे भोग्यम् वर्षभोग्यम् । भट्टिकाव्ये---- IX. 112.
न सर्वरालकल्याण्यः स्त्रियो नो रत्नभूमयः ।
यं विनिर्जित्य लभ्यन्ते कः कुर्यात्तेन विग्रहम् ।। 687 ।। सर्वरात्रान् कल्याण्यः सर्वरालकल्याण्यः । अस्मिन्नेव ग्रन्थे श्लोक 587. चिरकालसुपितं चिरकालोषितम् । अस्मिन्नेव ग्रन्थे श्लो० 170. क्षणं लक्ष्यमाणाः क्षणलक्ष्यमाणाः । माघे-XX. 46. . शिखिपिच्छकृतध्वजावचूड
क्षणसाशङ्कविवर्तमानकायाः । यमपाशवदाशु बन्धनाय
न्यपत-वृष्णिगणेषु लेलिहानाः ।। 688 ।। क्षण साशङ्काः क्षणसाशङ्काः। चम्पूभारते-I. 9.
शालीनतामविगणय्य सखीसमाजे
पश्चात्कृतस्य कमितुः प्रणयप्रकोपात् । मुग्धाः समीक्ष्य मुकुरायितरत्नभित्तौ
छायां क्षणानुतपनं शमयन्ति यस्याम् ॥ 689 ॥
क्षणमनुतपनं क्षणानुतपनम् ।
६९३ । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२.१. ३१)
तृतीयान्तमेतैः प्राग्वत् । मासेन पूर्वो मासपूर्वः । मातृसदृशः । पितृसमः । तुल्या¥रित्यादिना विहिता या तृतीया तदन्तमित्यर्थः । ऊनार्थे, माषोनं कार्षापणम् ।