________________
पाणिनिसूत्रव्याख्या
_ 'अपपरी वर्जने' (सू. 596) एतौ कर्मप्रवचनीयसंज्ञको । “पंचम्यपाङपरिभिः' (सू. 598) एतद्योगे पञ्चमी । तया पंचम्या वा समासः । अपविष्णु, अपविष्णोः । परिविष्णु, परिविष्णोः । बहिर्वनम् , बहिर्वनात् । प्राग्वनम् , प्राग्वनात् ।
अस्मिन्नेव अन्थे श्लो० 433. अप नगरात् अपनगरम् । नगर बजेयित्वा ।
अस्मिन्नेव ग्रन्थे श्लो० 484. उदधेः पञ्चमी । परिपरि । उदधि वर्जयित्वा 'परेवर्जने' (सू. 2141) असमासे वेत्यसमासपक्षे विकल्पाद् द्विवचनम् । समासपक्षे तु उदधेः परि पर्युदधि इति समासः स्यात् ।
मस्मिन्नेव अन्थे श्लो० 441. बहिर्विकारेभ्यो बहिर्विकारम् । मस्मिन्नेव ग्रन्थे श्लो0 424 तोरणादहिः । विकल्पान्न समासः ।
अस्मिन्नेव ग्रन्थे श्लो० 421. कलहोदयात्माकु । विकल्पात्र समासः । समासे प्राकलहोदयम् इति स्यात् ।
६६७ । आङ्मर्यादाभिविध्योः । (२. १, १३)
तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । 'आमर्यादाववने । सु. 597) इति कर्मप्रवचनीयत्वम् । ‘पञ्चम्यपाङ्परिभिः' (सू. 598)। एतयोगे पञ्चमी । एतया पंचम्या वा समस्यते । आमुक्ति आमुक्तेः संसारः, मर्यादायाम् : अभिविधौ तु आबालमाबालेभ्यो हरिभक्तिः।
अस्मिन्नेव ग्रन्थे श्लो० 603. तिष्ठद्गुः “तिष्ठदुपभृतीन्ति च । सू. 1 ) इत्यव्ययीभावनिपातनात्साधुः । तत्पर्यन्तमातिष्टद् । पुनरव्ययीभावः ।
चम्पूभारते-I. 32.
गात्रं न केवलमशेषबुधोपलाल्य
गोलं च तत्रभवतः कुमुदैकबन्धोः । आपाण्डु वर्तत इति स्फुटमद्य मन्ये
यस्मात्प्रजां न लभसे यदुवीरकन्ये ।। 654 || आ पाण्डो: आपाण्डु । पाण्डुपर्यन्तम् ।