________________
मासप्रकरणम्
घटितविघटित: प्रियस्य वक्ष
स्तटभुवि कन्दुकविभ्रमं बभार ।। 638 || पदे पदे प्रतिपदम् । वीप्सायामव्ययीभावः । नैषधे--II. 58.
प्रतिमासमसौ निशापतिः
खग संगच्छति यदिनाधिपम् । किमु तीव्रतरैस्ततः करे
मम दाहाय स धैर्यतस्करैः ।। 639 ॥ मासि मासि प्रतिमासम् । वीप्सायामव्ययीभावः । माधे--XI. 28. विलुलितकमलौघः कीर्णवल्लीवितानः
प्रतिवनमवधूताशेषशाखिप्रसूनः ।। क्वचिदयमनवस्थः स्थास्नुतामेति वायु
वधुकुसुमविमर्दोगन्धिवेश्मान्तरेषु ।। 640 ॥ वने वने प्रतिवनम् । वीप्सायामव्ययीभावः । माघे—XI. 34.
नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् । प्रतिदिशमपरस्त्रीसंगशसी विसर्पन्
नवपरिमलगन्धः केन शक्यो वरीतुम् ।। 641 ।। दिशि दिशि प्रतिदिशम् । वीप्सायामव्ययीभावः । 'अव्ययीभावे शरत्मभृतिभ्यः' (सू. 677 ) इति समासान्तष्टच् । माघ--III. 37. यस्याश्चलद्वारिधिवारिवीचि
च्छटोच्चलच्छकुलाकुलेन । वप्रेण पर्यन्तचरोडुचक्रः
सुमेरुवप्रोऽन्वहमन्वकारि ।।. 642 ॥