________________
कास्कीमकरण
अधिशेरतेऽत्रेत्यधिशयितमधिष्ठानम् इत्युक्तौ मणिरत्राधिशयितमिति समासश्चिन्त्यः । तस्मात् 'अधिशीथासां कर्म' (सू. 542) इति सकर्मकत्वात् अधिशयितः इति कर्मणि क्तः वक्तव्यः, मृगाध्यासितशाडुलानीतिवत् । भट्टिकाव्ये-VIII. 126.
रामस्व शयितं भुक्तं जल्पित हसितं स्थितम् ।
प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तै व्यसर्जयत् ॥ 528 ।। शेतेऽस्मिन्निति शयितं शवनस्थानम् । ध्रौव्येऽधिकरणे क्तः । भुङ्क्तेऽस्मिन्निति भुक्तं भोजनस्थानम् । प्रत्यवसानार्थेऽधिकरणे क्तः । तिष्ठत्यस्मिन्निति स्थितं निवासस्थानम् । ध्रौव्येऽधिकरणे क्तः । प्रक्रामत्यस्मिन्निति प्रक्रान्तं चकमणस्थानम् । गत्यामधिकरणे क्तः । एतद्योगे रामस्येति षष्ठी। जल्पितम् । हसितम् । नपुंसके भावे क्तः। एतद्योगे नपुंसके भाव इति शेषे षष्ठी।
मुकुन्दस्यासितमिदमिदं यातं रमापतेः ।
भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ।। भावे क्तप्रत्ययवत् अधिकरणे क्तप्रत्ययोऽपि नपुंसकम् । ६२७ । न लोकाव्ययनिष्ठाखलयतनाम् । ( २. ३. ६९)
एषां प्रयोगे षष्ठी न स्यात् । लादेशः - कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उ: - हरि दिनुः, अलङ्करिष्णुर्वा । उक - दैत्यान्धातुको हरिः ।
__वा० । कमेरनिषेधः । (1519.) लक्ष्म्याः कामुको हरिः। अव्ययम् - जगत्सृष्ट्वा । सुखं कर्तुम् । निष्ठा - विष्णुना हता दैत्याः, दैत्यान्हतवान्विष्णुः । खलाः - ईषत्करः प्रपञ्चो हरिणा । तृन् इति प्रत्याहारः । शतृशानचाविति तृशब्दादारभ्य तृनो आ नकारात् । शानन् - सोम पवमानः । चानश् - आत्मानं मण्डयमानः । शतृ - वेदमधीयन् । तृन् - कर्ता लोकान् ।
वा० । द्विषः शतुर्वा । ( 1522.) मुरस्य मुरं वा द्विषन् । सर्वोऽयं कारकषष्ठयाः प्रतिषेधः । शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ।