________________
भट्टिकाव्ये – VIII. 127.
भर्तुरन्तिकमिति द्वितीया ।
चम्पूभारते – I. 46.
असौ दवदभिज्ञानं चिकीर्षुः कर्म दारुणम् । गामुकोऽप्यन्तिकं भर्तुर्मनसा चिन्तयत्क्षणम् || 446 ||
गिरां
कारकप्रकरणम्
धर्मात्पाप युधिष्ठिरं पवनतो भीमं च भीमं द्विषां जिष्णोर्जिष्णुमतीव धृष्णुमनघा कुन्ती मुनेर्विद्यया । अन्या सापि तयैव तत्र नकुलं रूपास्पदं गीष्पतेः सच्छात्र सहदेवमप्यजनयन्नासत्ययोरन्तिकात् ॥ 447 ||
पञ्चमी ।
चम्पूरामायणे - VI. 10.
द्रष्टुं नालमगाधतां फणिपतिः सीमान्तरेखा दिशो द्वीपा : सैकतमण्डलानि तदयं दूरे गिरां वारिधिः ।
येषामेष सुखादखानि नखरैर्येनाथवा पूरित
स्तेषां नः कुलभूभुजामविहतस्थेने महिम्ने नमः || 448
इति सप्तमी ।
दूर
भट्टिकाव्ये V. 5.
सम्प्राप्य राक्षससमं चऋन्द क्रोधविला । नामग्राहमरोदीत्सा भ्रातरौ रावणान्तिके ॥ 449 ||
सप्तमी ।
१२
६०६ । षष्ठी शेषे । (२. ३. ५० )
कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् ।
- राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानां तृप्तः ।
अस्मिन्नेव ग्रन्थे इलो० 216. इदं काकुत्स्थस्य रामस्य सम्बन्धि अङ्गुलीयकम् 1