________________
५० ] नवमः सर्गः [ नेमिनाथमहाकाव्यम्
उग्रसेनोऽप्युवाचैव हर्षविस्मेरलोचनः । मानन्दिता वय तावदनया कथयाप्यहो ।।६०॥ सता तिष्ठतु सम्बन्ध. कथापि सुखयत्यलम् । दूरे चन्द्रश्चकोराणा ज्योत्स्नैव कुरुते मुदम् ॥६॥ सम्बन्धमन्तरा नौ भो सम्बन्धोऽय भवेद्यदि । तदा माधव । मन्येऽहं ौरेयी' खण्डमिश्रिता ॥६२।। दत्ता मया कुमारीय कुमारारिष्टनेमये । शिव. स्यादनयोर्योगो रोहिणीचन्द्रयोरिव ॥६॥ आते कान्तेऽथ सम्वन्धे सम्बन्धिनावुभावपि । प्रारेभाते निज कार्य · जलवीज इवाकुरम् ॥६४।। उपयामयोग्यमखिलं यदिष्यते
___ प्रगुणीकुरुध्वमधुनेह वस्तु तत् । इति भोजभूमिपतिरादिशन्मुहु.१०
सचिवान्, निजान् प्रमदवारिवारिधिः ॥६५॥ इति श्रीकी तिराजोपाध्यायविरचित-श्रीनेमिनाथमहाकाव्ये
कन्यालाभवर्णनो नाम नवमः सर्ग ।
७. वि. मा. ज्योत्स्नेव ८. वि. मा. सम्बन्धो नु ६. यशो मा., महि. क्षीरेयी १०. यशो, मा. मृदुः