________________
नेमिनाथमहाकाव्यम् ]
सप्तम सर्गः
[ ३७
या सौधसुखशय्यासु सुप्तास्त्वदरिनायिका ।
द्ध त्वयीश ! ता. शैलशिलापट्टेषु शेरते ॥२६।। रणरात्रौ महीनाथ ! चन्द्रहास विलोक्यते । वियुज्यते स्वकान्ताम्यञ्चक्रवाकैरिवारिभिः ॥२७॥ क्राम्यन्ती बहुशो देशान् खेलन्तीश्वरमूर्धनि । आसमुद्र विशश्राम तवाज्ञा भीष्मसूरिव ।।२।। तव त्यागोद्धता भूप मार्गणा गुणनोदिताः । भवतो' विजयारम्भ जल्पन्ति समराजिरे ॥२६॥ शुभ्रापि शशिन- कान्तिीयते रविसन्निधौ । न पुनर्नाथ कुत्रापि त्वत्कीर्तिः पर्यहीयत ॥३०॥ भुञ्जन् राजन् ! महीमेना प्रथयन् न्यायमुत्तमम् । प्रजाजनकसकाग ! त्व जीव शरदा शतम् ॥३१॥ इत्थ बन्दिजनोद्गीता कीर्तिं मुक्ताफलोज्ज्वलाम् । स शुश्राव महीजानि. कर्णामृतच्छटोपमम् ॥३२।। नृपोऽथ पूरयामासार्थिनामागा धनोत्करै । शक्रयमार्णवावासकुवेराणा यशोभरै ॥३३|| प्रार्थनामर्थिनामर्थे साफल्य लम्भयन्तृप । द्वादशाही व्यवादुच्चै सूनोर्जन्ममहोत्सवम् ॥३४॥ अथामन्त्र्य निजावासे राजा यादवपु गवान् । भोज भोज यथायुक्ति सच्चकार सगौरवम् ॥३ ।। गर्भस्थिते जगन्नाथे जनयित्री यदक्षत । रिप्टरत्नमय स्वप्ने चक्रनेमि विभास्वरम् ॥३६॥॥ तत. स्वप्नानुसारेण प्राड नञ्यपश्चिमादिवत् । अरिष्टनेमिरित्याख्या चक्रतु. पितरौ प्रभो. ॥३७॥
१ यशो मा , वि मा भवते