________________
कर्मकाण्डक्रमावली। चन्द्रकांतशरच्चन्द्रप्रभेव बहुरूपिणी ॥६६५॥ फलं तु कामभेदेन क्रमादासामुदीर्यते । वश्याकर्षणयोराद्या कनका स्तम्भने रिपोः ॥६६६ ॥ विद्वेषमोहने रक्ता कृष्णा मारणकर्मणि ।। सुप्रभा शान्तिके पुष्टौ सुरक्कोच्चाटने मता ॥६६७ ॥ एकैव बहुरूपा तु सर्वकामफलप्रदा ।। अभीष्टवदने तासां जिह्वानामनुपूर्वशः ॥६६८ ॥ बीजानि सप्त होमार्थं लिख्यन्ते तासु तद्यथा । विरेफावन्तिमौ वर्गों रेफषष्ठस्वरस्थितौ ॥६६९ ॥ इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजान्यनुक्रमात् ।
डों यर हिरण्यायै नमः । लर कनकायै नमः । → रक्तायै नमः । यूँ कृष्णायै नमः । पर सुप्रभायै नमः । स्र अतिरक्तायै नमः । हूँ बहुरूपायै नमः ॥ क्षीरादिमधुरै)में कुर्याच्छान्तिकपौष्टिके ॥६७० ॥ अभिचारे तु पिण्याकसक्तुकम्बुककाञ्चिकैः ।। लवणे राजिकातक्रकटुतैलैश्च कण्टकैः ॥६७१॥ समिद्भिरपि वक्राभिः कुद्धो भाष्याणुना यजेत् । विद्याधरत्वलाभाय चन्द्रागुरुयुतं पुरम् ॥ ६७२ ॥ अथवा पाकिचल्कैर्जुहुयात्साधकोत्तमः । . कदम्बकलिकाहोमाद्यक्षिणी सिध्यति ध्रुवम् ॥६७३ ॥ बन्धककिंशुकादीनि वश्याकर्षाय होमयेत् । बिल्वं राज्याय लक्ष्म्यर्थ पाटलांश्चएपकानपि। ॥ ६७४ ॥