________________
सोमशम्भुरचिता। न्यूनातिदोपशान्त्यर्थं हुत्वा दत्त्वा च दिग्बलिम् ॥१७५० गुरवे दक्षिणां दद्याद्यागदोषनिवृत्तये । प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ॥१७५१ तावद्वर्पसहस्राणि कर्तुर्भोगभुजः फल छ । तत्कोटिशुणितं पुण्यं प्राप्नोति ध्वजरोपणात् ॥१७५२
जीर्णेऽपि संस्कृते पुण्यमेतदेव प्रकीर्तितम् इति ध्वजारोपणविधिः । अथ जीर्णोद्धारः -
जोर्णानां चललिङ्गानामुद्धारे विधिरुच्यते ॥१७५३। जीर्णोद्धारं विना यसाल्लिङ्ग भूताश्रयं भवेत् । जोर्णायमुद्धरेत्तसान्महापुण्यसमीहया ॥१७५४॥ तच्च जीणं कृशं दग्धं हीनं मानाधिकं तथा । लक्ष्मोज्झितं च भग्नं च स्थूलं वज्रहतं तथा ॥१७५५॥ संपुटं स्फूर्जितं व्यङ्गं लिङ्गमित्येवमादिकम् । इत्यादि सर्वलिङ्गानां त्याज्या पिण्डी तथा वृषम् ।।१७५६।। चलितं चालितं बिम्बमत्युग्रं विषमस्थितम् । दिङ्भानं 'मार्जितं लिङ्ग मध्यस्थं पतितं यथा ॥१७५७।। एवंविधं च संस्थाप्य निव्रणं च भवेद्यदि । नद्यादिकप्रवाहेण तदपि क्रियते यदि ॥१७५८।। ततोऽन्यदपि संस्थाप्य विधिदृष्टेन कर्मणा ।. . शतेन स्थापनं कुर्यात्सहस्रेण तु चालमम् ॥१७५६।। पूजादिभिश्च...... जीर्णाद्यमपि सुस्थितम् । : पूजया रहितं तत्त्वं वत्रस्थमपि दुःस्थितम् ॥१७६०॥