________________
.
.
.
.
.
.
...
सोमशम्भुरचिता ।
यदि वा च यथेच्छया । महाध्वजः समाख्यातो यस्तु ............ ॥१७२७॥ कार्यः शुभस्तदुत्थो वा स भवेत्सर्वकामदः । अयमारोप्यमाणस्तु भङ्गमायाति वा यदि ॥१७२६॥ राज्ञे नेष्टे विजानीयाद्यजमानस्य वा तदा । मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमादिशेत् ॥१७२६।। द्वारपालादिपूजां च मन्त्राणां तर्पणं यथा ।। विधाय चूलकं दण्डं स्वापयेदस्त्रमन्त्रवः ॥१७३०॥ अनेनैव तु मन्त्रेण ध्वजं संप्रोक्ष्य देशिकः । मृत्कषायादिभिः स्नानं प्रासादं कारयेत्ततः ॥१७३१॥ विलिप्य च ममाच्छाद्य शय्यायां न्यस्य पूर्ववत् । चूलको लिङ्गवन्यासो न च ज्ञानी न च क्रिया ॥१७३२॥ विशेषान्नं चतुर्थी च न च चण्डस्य कल्पना । चण्डस्तथात्मतत्त्वं च विद्यातत्वं द्वितीयकम् ॥१७३३॥ सद्योजातादिवत्राणि शिवतत्त्वे पुन जे । निष्कलं च शिवं तत्र न्यस्याङ्गानि प्रपूजयेत् ॥१७३४। चूलके च ततो मन्त्री सांनिध्ये संहिताणुभिः । होमयेत्प्रतिभोगं तु ध्वजे तैस्तु फडन्तगा ॥१७३५॥ अन्यथापि कृतं यच्च ध्वजसंस्करणं क्वचित् । अस्खयागं विधायैवं तत्सर्वमुपदर्शितम् ॥१७३६।। प्रासादे कारितनाने स्रग्वस्त्रादिविभूषिते । जङघावेदी तर्चेषु त्रितत्त्वादि निवेश्य च ॥१७३७)