________________
१७८
कर्मकाण्डक्रमावली दशनाडीदशप्राणानिन्द्रियाणि त्रयोदश । तदधिपांश्च संपूज्य प्रणवाद्यैः स्वनामभिः ॥१७१७॥ खकार्यकारकत्वेन मायाकलनियामिकाः । विद्येशान्पूरकाशम्भुं व्यापिनं च स्वशम्बरैः ॥१७१८॥ अङ्गानि च विनिक्षिप्य निरुन्ध्याद्रोधमुद्रया । स्ववर्णाशुद्भवं यद्वा पुरुष पुरुषान्तगम् ॥१७१६।। पञ्चगव्यकषायाः पूर्ववत्संस्कृतं ततः। । शय्यायां च समारोप्य ध्यात्वा रुद्रमुमापतिम् ॥१७२०॥ तस्मिंश्च शिवमन्त्रेण व्यापकत्वेन विन्यसेत् । संनिधानाय होमं च प्रोक्षणं स्पर्शनं जपम् ॥१७२१॥ सांविध्यं रोधनं सर्व भागत्रयविभागतः । विधायैवं प्रकृत्यन्तं कुम्मे तं विनिवेशयेत् । ॥१७२२ इति.. हत्प्रतिष्ठा । ध्वजारोपणम्मूलके ध्वजदण्डे च धजे देवकुले तथा । प्रतिष्ठा च यथोद्दिष्टा तथैदानीं निगद्यते ॥१७२३॥ के भागार्धप्रदेशाद्वा सर्वासर्वप्रवेशनम् । ऐष्टिके दारुजं शूलं शैलजे धाग्नि शैलजम् ॥१७२४ कर्तव्यं लिङ्गमानेन लिङ्ग वा प्रोक्तमानतः । शंभुत्रिशलयुक्तस्तु ग्रहचूलाविधो ........... ॥१७२।। एष मूलः समाख्यातो मूनि लिङ्गसमन्वितः । बोजपूरकयुक्तो वो शिवशास्त्रेषु तद्विधः ॥१७२६॥ चित्र ध्वजश्च जवा ते यद्वा जवा ततो भवेत्