________________
१६६
कर्मकाण्डक्रमावली सघृतं गुग्गुलं दत्त्वा व्यापित्वेन शिवं न्यसेत् । स्रग्धूपदीपनैवेद्यं हृदयेन फलानि च ॥१५६॥ हृदयेन यथाशक्त्या समाचम्य महेश्वरि । दत्वा च जपं कृत्वा निवेश्य वरदे वरे ॥१६००॥ चन्द्रार्कतारकं यावन्मूर्तीशैर्मृतिपैः सह ।। स्वेच्छयैव जगन्नाथ स्थातव्यमिह मन्दिरे ॥१६०१॥ प्रणम्यैनं बहिर्गत्वा हृदा वा प्रणवेन वा । संस्थाप्य वृषभं पश्चान्पूर्ववद्वलिमाचरेत् ॥१६०२॥ न्यूनादिदोषमोषार्थं ततो मृत्युजितागतम् । शिवेन समिधो दत्त्वा शान्त्यर्थं पायसेन वा ॥१६०३।। ज्ञानाज्ञानकृतं यत्तु तत्पूरय महाविभो । हिरण्यपशुभूम्यादिगीतवाद्यादि हेतवे ॥१६०४॥ अमुकेशाय तद्भक्त्या शक्त्या सर्व निवेदयेत् । दानं महोत्सवं पश्चात्कुर्यादिनचतुष्टये ॥१६०५॥ त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेन्मूर्तिपैः सह । चतुर्थेऽहनि संपूर्णे चरुकं बहुरूपिणा ॥१६०६॥ कुर्वीत सर्वकुण्डेषु संपाताहुतिशोधितम् । दिनचतुष्टयीं यावन्न निर्माल्यं तव॑तः ॥१६०७॥ निर्माल्यापनयं कृत्वा स्नापयित्वा प्रपूजयेत् । प्रथमं मातृलिङ्गेषु कार्या साधारणाणुभिः ॥१६०८॥ विहाय लिङ्गमध्ये तु कुर्याच्चाणुविसर्जनम् । आवाहनमभिव्यक्तिर्विसर्गः शिवरूपतः ॥१६०६।।