________________
१४५
सोमशम्भुरचिता। पिष्टनिर्मितवज्रादिद्रव्यं निर्भर्त्सनाय च । सहस्रसुषिरं कुम्भं मङ्गलाय च रोचनम् ॥१३८१॥ शतमोषधिमूलानां विजया लक्ष्मणाभया । गुडूच्यतिबला पाठा सहदेवी शतावरी ॥१३८२॥ सुवर्चला तथा वृद्धिः स्नानायोक्ता पृथक्पृथक । रक्षायै तिलदर्भाद्यैर्वस्त्राणां भस्म केवलम् ॥१३८३॥ यवगोधूमविल्वानां चूर्णानि च विचक्षणः । विलेपनं सकर्पूरं स्नानार्थं गडुकुम्भकान् ॥१३८४॥ मण्डपानां विताने द्वे कुर्याचित्रैः सदम्बरैः। खट्वाथ तूलिकायुग्मं सोपधानं सवस्त्रकम् ॥१३८५॥ कुर्याद्वित्तानुसारेण शयने लक्ष्मकल्पने । घृतक्षौद्रयुतं पात्रं कुर्यात्स्वर्णशलाकिकाः ॥१३८६।। त्रिद्वयेकमाषकास्ताश्च क्रमाज्ज्येष्ठादिषु त्रिषु । वार्धानी शिवकुम्भं च लोकपालपटानपि ॥१३८७॥ एवं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसंख्यया । द्वारपालादिधर्मादि प्रशान्तादि घटानपि ॥१३८८॥ धान्यमनकृताधाराः सवस्त्राः स्रग्विभूषिताः । सहिरण्याः समालब्धा गन्धपानीयपूरिताः ॥१३८६॥ पूर्णपात्रफलाधाराः पल्लवास्याः सुलक्षणाः। कुम्भाः सर्वे विधातव्याः सवस्त्राः कुम्भतोरणा ॥१३६०॥