________________
सोमशम्भुरचिता। रत्नवारि महेन्द्राय खौ धूम्र वितानकम् । सत्याय घृतगोधूमं मापभक्तं भृशाय च ॥१२७६।। विमांसमन्तरिक्षाय सक्तून्वेत्यष्ट पूर्वतः । मधुक्षीराज्यसंपूर्ण प्रदद्याद्वह्वये सुवम् ॥१२८०।। लाजान् पूष्णे सुवर्णाम्बु वितथाय दयेत् । दद्याद्गृहदते क्षौद्रं यमराजे पलौदनम् । ॥१२८१॥ गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणाम् । मृगाय यवपर्णानि याम्यामित्यष्ट देवताः ॥१२८२॥ पित्रे तिलौदनं क्षीरं वृक्षजं दन्तधावनम् । दौवारिकाय देवाय प्रदद्याद्ध्यानमुद्रया ॥१२८३॥ सुग्रीवायादिशेत्पूपान्पुष्पदन्ताय दर्भकम् । रक्तं प्रचेतसे पद्ममसुराय सुरासवम् ॥१२८४॥ घृतप्लुतौदनं शोपे रोगाय घृतमण्डकम् । लाजान्वा पश्चिमाशायाँ देवाष्टकमितीरितम् ॥१२८५॥ मारुताय ध्वजं पीतं नागाय नागकेसरम् । मुख्य भक्ष्याणि भल्लाटे मुद्गसूर्य सुसंस्कृतम् ॥१२८६॥ सोमाय पायसं साज्यं शालूकं मृगाय दिशेत् । लोपीमदितये दित्यै पुरीमित्युत्तरेऽष्टकम् ॥१२८७॥ मोदका ब्रह्मणे प्राच्या षटपदाय मरीचये ।। सावित्रे रक्तपुष्पाणि वह्नयधःकोणकोष्ठके ॥१२८८॥ तदधःकोष्टके दद्योत्सावित्रे च कुशोदकम् ।