________________
सोमशम्भुरचिता ।
संपूज्य कलशान्पञ्च क्रमेण निजनामभिः । निरन्धीत विधानेन न्यासो मध्यशिलाक्रमात् ॥१२६०॥ कुर्यात्प्राकारमस्त्रेण भूतिदर्भतिलैस्ततः । कुण्डेष्वाधारिका शक्तिं विन्यस्याभ्यर्च्य तर्पयेत् ॥१२६१॥ तत्त्वतत्त्वाधिपान्मृतिमीशांश्च घृतादिभिः । ततो ब्रह्मात्मशुद्ध्वर्थ मूलाङ्गब्रह्मभिः क्रमात् ॥१२६२॥ हुत्वो शतादिपूर्णान्तं प्रोक्ष्य शान्तिजलैः शिलाः ।। पूजयेच्च कुशैः स्पृष्ट्वा प्रतितत्त्वमनुक्रमात ॥१२६३॥ सान्निध्यमथ सन्धानं कृत्वा शुद्धं पुनन्यसेत् । एवं भागत्रये कर्म कृत्वा गत्वां समाचरेत् ॥१२६४॥ संस्पृशेदर्भमूलाधैः तत्त्वेशादित्रयं क्रमात् । कुर्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः ॥१२६॥ डों आ ई आत्मविद्यातत्त्वाभ्यां नमः । डों इँ ऊ विद्यातत्त्व शिव तत्त्वाभ्यां नमः। घृतेन मधुना पूर्णांस्ताम्रकुम्भान्सरत्नकान् । पञ्चगव्याग्रसंसिकांलोकपालाधिदैवतान ॥१२६६॥ पूजयित्वा निजैर्मन्त्रैः सर्वेषां होममाचरेत् । शिलानामथ सर्वासां संस्मरेदधिदेवताः ॥१२६७॥ विद्यारूपकृतस्नाना हेमवर्णाः सिताननोः । सर्वाभरणसंपन्नाः शिलानामधिदेवताः ॥१२६८॥