________________
१२६
कर्मकागडक्रमावली यथा श्राद्धं करिष्येऽहं कुरूष्वैवं स तैर्मतः ॥११६३॥ द्वाभ्यां दद्यादजातेन सव्येनासनयोः कुशान् । त्रयाणामपसव्येन सर्वत्रैवंविधो विधिः ॥११९४॥ आवाहयद्यथा नाम पञ्चापि तदनन्तरम् । रक्षा यवैस्तिलैः कार्या वामेशाभ्यामनुक्रमात् ॥११६५॥ सांनिध्यार्घमघोरेण सुपुष्पाम्बुकुशाक्षतान । द्वाभ्यां त्रिभ्यस्तमीशेन दद्याद्भुमिष्ठ जानुकः ॥११६६।। यवैः पोदादिमूर्धान्तं द्वयं संपूज्य रूपिणा । तिलैस्तुत्रयमीशेन शिरःप्रभृति पूजयेत् ॥११६७॥ गन्धं पुष्पं च वामेन धूपं दोपं च रू पिणा । दत्त्वैशेन पवित्राद्यं ब्रूयात्संपूर्णमित्यपि ॥११६॥ ततस्तत्संस्रवांस्तेषां पात्रे कृत्वा विधानवित् । पित्र्यस्थानमसीत्युक्त्वा न्युवजं पात्रमधो न्यसेत् ।।११६६।। सर्वपाकाग्रमानीय हुत्वाग्नौ पितृयज्ञवत् । हुतशेषं दधीतान्नं पात्रेपु पुरुपं पठेत् ॥१२००॥ इत्यग्नौ करणं कृत्वा मधुनानं घृतप्लुतम् । दद्यात्पुंसा पवित्राढ्यं स्पृष्ट्वाघोरेण मन्त्रयेत् ॥१२०१॥ न्युजं सव्यं तदङ्गुष्ठममृतान्नं सुसङ्गतम् ।। वामं मृत्युञ्जयं वापि परितो भ्रामयेत्पठन् ॥१२०२॥ अपोशानं समासेन प्रदद्यात्पाणिपल्लवे । वाचंयमः प्रभुञानस्ते जुपध्वमितीरिताः ॥१२०३॥ कर्ता तिष्ठेज्जपन्नीशमातृप्ते रुदगाननः ।