________________
सोमशम्भुरचिता। पञ्चाभावे तु सर्वत्र युज्यते पुपद्वयम् । ॥११८ शिरःस्कन्धविभागेन त्रयमेकत्र कल्पयेत् । बाहुमूलविभेदेन विश्वेदेवौ द्वितीयके ॥११८३ एकत्र बाहुयुग्मेन सह वा पञ्च कल्पयेत् ।। चतुर्थे सप्तमे चैव नवमे च त्रयोदशे ॥११८४ अमावस्यां गयायां च पितृपक्षे प्रतर्पयेत् । अष्टम्यां पर्वशेषेऽपि मा तृपक्षे इति श्रुतिः ।११८५ निमन्त्रयेत पूर्वेधुर्यथागौरवमोदृतः ।। आकारयेद्दिनेऽन्यस्मिन्नपराह्ने कृतक्रियः ११८६ वेदाश्रमङ्गने प्राच्यां कुर्यान्मण्डलकद्वयम् । दक्षिणोत्तरसंस्थानं हस्तमात्रं करान्तरम् ॥११८७ प्रतीच्या वर्तुलं तद्वपितृदैवं तु पूर्ववत् । दैवे द्वये यवान्दद्यात्सकुशान्पैत्रयोस्तिलान् ॥११८८ विद्याङ्गास्त्रेण याम्ये द्वे उत्तरेशाधिपेरिते । पूजयेत्कुसुमैः श्वेतैश्चतुरश्रक्रमात्ततः ॥११८६ यवैद्वयोस्त्रयाणां तु दद्यादयं तिलैः सह । स्वाहास्वधान्तगैर्मन्त्रैः स्वनामप्रणवादितः ॥११६० दक्षिणं वोमदेवेन पादं प्रक्षालयेन्मृदा । दद्यादाचमनं सौम्ये स्वाचान्तो विनिवेशयेत् ॥११६१ आसनेषु सुधौतेषु वामेनैवोपवेशयेत् । द्वयं पूर्वाननं पूर्वं ततस्त्रयमुदङ्मुखम् ॥११६२