________________
सोमशम्भुरचिता ।
निवृत्त्यादीन्समादाय युगपद्वा क्रमेण वा I अग्नौ संयोज्य संपूज्य शिवस्यावाहनादिकम् ||११६२ | कृत्वा ताडन विश्लेषौ जीवस्याकर्षणादिकम् । कर्मात्मस्थं च तत्रस्थं दीक्षावत्सर्वमाचरेत् ॥११६३॥ जन्माधिकारं भोगं च लयं स्रोतोविशोधनम् । निष्कृतिं च तिरोधानं पशोः पाशविभेदनम् ॥ ११६४ मर्दनं तुलीभावं पाशदाहादिकां क्रियाम् ।
॥११६६
॥११६७
कारणावाहनं तद्वदधिकारसमर्पणम् आत्मोद्धरणकर्मादि कृत्वा गुग्गा विसर्जनम् । योजयेद्भावनातीते शिवे चैतन्यमव्यये स्थण्डिलेशं नियोज्याग्नौ शवं दक्षिणमस्तकम् । चितावुत्तानमारोप्य पिदधीत समिन्धनैः ' . चितां संदीपयेत्पश्चात्कुण्डमत्र चिताग्निना । ज्वलितेऽग्नौ शिरोदेशे पूर्णां सौम्याननो यजेत् ॥ ११६८ त्वमग्ने दक्षिणः कालः कालेनैवोपादिताम् । गृहाण मन्त्रसंपूर्ण शैवीमेतां महाहुतिम् ॥ ११७६ पठन्नेवं महामन्त्रं दत्वा पूर्णां तथान्तिमाम् । स्थापयेत्तत्र दीप्तायाँ स्रुवौ तावधोमुखौ वामांसेवामादाय प्रत्यग्धारा प्रदक्षिणम् | विमुञ्चनिक्षिपेत्तत्र यत एव समुद्धृता ततो जलान्तिकं गत्वा पश्चादनवलोकयन् ! स्नात्वा प्रस्तीर्य सदर्भानपसव्यं विधाय च
॥११७
॥ ११७!
१ 'सदिन्धनैः' व. । २ 'संपूतां' ख. पाठः
१२
॥११६५
॥११७