________________
सोमशम्भुरचिता । कुण्डदक्षिणतः कुर्याच्चितावास्तुं चतुष्करम् ॥११४ हस्तद्वितयविस्तीर्णमष्टाङ्गुलगभीरकम् ।। कुण्डादित्रयमप्येतल्लिम्पेद्गोमयवारिणा ॥११४ अथ स्वातः कृतन्यासो गृहीतास्नालुको गुरुः। प्रदक्षिणक्रमादगत्वा स्थण्डिलान्तमुदङमुखः । ॥११४ विपरीतकृतन्यासो हेतिमन्त्रेण रक्षितः । कृतान्तर्यजनो मौनी मन्त्रयित्वास्त्रवार्धनीम् ॥११४ द्रव्यं तदम्भसा सिञ्चदात्मानं योजयेत्ततः । प्रक्षिप्य विकिरवातं वाधन्या सह सेतवे ॥११४ समाहृत्य विधानेन चितावास्तुं विवर्तयेत् । पञ्चभागे कृते क्षेत्रे पञ्चविंशतिकोष्ठके . ॥११४ पृथिव्यादि यथारूपं पञ्चवर्णविभूषितम् । दंशरज्ज्वादिसंपन्ने विन्यसेद्वास्तुदेवताः ॥११४ तत्र मध्ये भुवा सार्धं ब्रह्माणं कोष्टपञ्चके ।। नैर्ऋते वारिणा साधं विष्णुं कोष्ठचतुष्टये ॥११४ अग्निकोणे चतुष्कोष्ठे रुद्रं ज्वलनसंयुतम् । . वायुकोणे चतुष्कोष्ठे वायुना सममीश्वरम् ॥११५ तच्चतुष्के तथैशान्यों गगनं ससदाशिवम् । पूर्वादिदिक्षु कोष्ठेषु शक्रादींश्चतुरोऽर्चयेत् ॥११! निजनाम्ना नमोऽन्तेन स्वाहान्तेन बलिं दिशेत् । डों हां ब्रह्मणे वास्त्वधिपतये नमः इति भूमौ । डों हां विष्णवे : इति जले । डों हां रुद्राय नम इति वह्नौं। डों हां ईश्वरीय
-