________________
सोमशम्भुरचिता । गृहीत्वा तं नमोऽन्तेन निजात्मनि नियोजयेत् ॥८६ डॉ हाहाहां आत्मने नमः। पूर्ववत्पितृसंयोगं भावयित्वोद्भवाख्यया । वामयो तदनेनैव देवीगर्ने विनिक्षिपेत् ॥८६१ डों हांहांहां आत्मने नमः ।
देहोत्पत्तौ हृदा पञ्च शिरसा त्वात्मने तथा । शिखया चाधिकाराय भोगाय कवचाणुना ॥८६२ लयाय चास्त्रमन्त्रेण स्रोतःसिद्ध्यै शिवाणुना । तत्त्वशुद्ध्यै हृदेत्येवं गर्भाधानादि पूर्ववत् ॥८६३। शिरसा पाशशैथिल्ये निष्कृत्यै च शतं जपेत् । मलशक्तितिरोधाने पञ्चास्त्रेणाहुतीर्यजेत् ॥८६४। एवं पाशवियोगेऽपि ततः सप्तास्त्रजप्तया । छिन्द्यादस्त्रेण कर्तर्या . कलाबीजवता यथा ॥८६५ ॥ ओं ही प्रतिष्ठाकलापाशाय हूं फट ।। विमृद्य वर्तुलीकृत्य पाशशस्त्रेण पूर्ववत् । घृतपूर्णस्रुवे दत्त्वो कलास्त्रेणैव होमयेत् ॥ ८६६ ।। अस्त्रेण जुहुयात्पञ्च प्रशाङकुर निवृत्तये । प्रायश्चित्तनिषेधार्थ दद्यादष्टाहुतीस्ततः ॥ ८६७ ॥ डों हः अस्त्राय हूं फट ।
हृदावाह्य हृषीकेशं कृत्वा पूजनतर्पणे । पूर्वोक्तविधिना कुर्यादधिकारसमर्पणम् ॥८६८॥