________________
सोमशम्भुरचिता । लकुलीशो हरिश्चन्द्रः श्रीशैलो दशमः स्मृतः ॥ ८७५॥ जल्प आम्रातकेशश्च महाकालोऽथ मध्यमः । केदारो भैरवश्चैव द्वितीयाष्टकमीरितम् ॥८७६ ।। ततो गया कुरुक्षेत्रं नालं कनखलं तथा । विमलश्चाहासश्च महेन्द्रो भीम एव च ॥८७७ ॥ वस्त्रापदं रुद्रकोटिरविमुक्तो महालयः । गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च ॥ ८७८ ॥ प्रथाजेशश्च सर्वज्ञो भास्वरस्तदनन्तरम् । सुबाहुर्मन्त्ररूपी च विशालो जटिलस्तथा ॥८७६ ।। रौद्रोऽथ पिङ्गलाख्यश्च कालदंष्ट्री भवेत्ततः । विधुरश्चैव घोरश्च प्राजापत्यो हुताशनः ॥८८०॥ कालरूपी तथा कालकर्णोऽप्यथ भयानकः । पतङ्गः पिङ्गलश्चैव हरो विधातृसंज्ञकः ॥ १॥ शकुकर्णाभिधानश्च श्रीकण्ठश्चेन्दुमौलिना ।
सह ते भवपर्यन्ताः कथ्यन्तेऽथ पदान्यपि ॥ ८८२ ॥ व्यापिन् अरूपिन् प्रथम तेजः ज्योतिः अरूप अनग्ने अधूम अभस्मन् अनादे नानानाना धूधूधूधू डोंभूः डोंभुवः
स्वः अनिधन निधन निधनोद्भव शिव शर्व परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपते मुश्च प्रमथ शर्व इति, द्वात्रिंशत्पदानि ।
बीजे उभे त्रयो मन्त्रा वामदेवशिरःशिखाः ।