________________
२८
जीवन्धरचम्पूकाव्ये स्यालस्तदीयो मथनाभिधानो वाणी कृतन्त्रस्य हिताममंस्त ।
काकः स्फुरन्निम्बफलप्रसूतिमास्वादनीयां बहुमन्यते हि ।। ७४ ।। अथ सोऽपि काष्टाङ्गारस्तत्काल एव नरपालजिघांसानिनः कृतन्नः करटतटविलुठल्मधाराव्याजेन वह्वीः कल्लोलिनीरुद्वमद्भिरिव धराधरैर्गन्धसिन्धुरैः सैन्यसागरतरङ्गैरिव रङ्गतुरङ्गै रयविजितरविरथैरमितरथैर्भुजचन्दनतरुकोटरान्निर्गच्छन्ती(जर्ग:रिव कृपाणीलताः समुहद्भिः पादातैः परिशोभमानां सेना नरेन्द्रमन्दिररोधनाय समादिदेश।
समुज्जजम्भे संभूतस्तदा दुन्दुभिनिस्वनः ।
धुन्वन्निव धरामद्रीचालयन्दलयन्नभः ॥ ७५ ।।। ततो नटद्भटाटोपघटितभुजास्फोटचटुलरवनिष्ठुरेण मदवारणकण्ठरवघण्टाघोपभैरवेण कण्ठीरवरवकुण्ठनपटुपोपितहयहेषितभीपणश्वरतरखुरपुटघटनकुट्टिमजनितकठोरध्वनिनिर्भ रेण पदातिततिपादाहतिप्रोद्भूतभूरिभूरवभीकरेण सन्ततपरिस्पन्द मदमन्दवेगस्यन्दनचक्रचीत्कारमेदुरेण धानुष्ककरकलितधनुष्टंकारकर्कशेन प्रतिध्वानितकुलाचलकन्दरकुलेन कोलाहलेन भरितं तस्य बलं भूपतिभवनमुपरुरोध ।
स्याल इति-मथन इत्यभिधानं नामधेयं यस्य सः, 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः, तस्यायं तदीयः काष्टाङ्गारसम्बन्धी, स्यालो भार्याभ्राता, कृतवस्य नीचस्य तस्य काष्टाङ्गारस्य वाणी भारतीम्, हितां कल्याणकरीम्, अमस्त मन्यते स्म । हि यतः, काको वायसः, स्फुरन्ती प्रादुर्भवन्ती निम्बफलस्य पिचुमन्दफलस्य प्रसूतिमुत्पत्तिम्, आस्वादनीयां स्वादयोग्यां मधुरामिति यावत्, बहुमन्यते नितरां जानाति ॥ ७४॥
अथ सोऽपीति-अथानन्तरम्, नरपालस्य सत्यन्धरस्य जिघांसा हन्तुमिच्छा तस्या निन्न आधीनः, कृतघ्नः कृतोपकारापलापी, सोऽप्यपरिमितमायाभाण्डागारः काष्टाङ्गारः, तत्काल एव तत्ससय एव, करटतटेयु गण्डस्थलेषु विलुठन्तीनां मदधाराणां दानप्रवाहाणां व्याजेन दम्भेन, बह्वीः प्रभूताः, कल्लोलिनीनदीः, उद्वमद्भिः प्रकटयद्भिः, धरावरैरिव शैलेरिव, गन्धसिन्धुरैमत्तमतङ्गजैः, सैन्यमेव सागरः सैन्यसागरः पृतनापाथोधिस्तस्य तरङ्गा भङ्गास्तैरिब रङ्गन्तः समुच्छलन्तश्च ते तुरङ्गाश्च हयाश्च तैः, रयेण जवेन विजितस्तिरस्कृतो रविरथः सूर्यस्यन्दनो यैस्तैः, अमितरथैरगणितशताङ्गः, भुज एव बाहुरेव चन्दनतरुमलयजमहील्हस्तस्य कोटराद् गर्तात् , निर्गच्छन्तीनिःसरन्तीः, भुजगीरिव पन्नगीरिव, कृपाणीलताः खड्गवल्लरीः, समुद्रह द्धिर्धरशिः पदातीनां समूहास्तैः पत्तिसमू हैः परिशोभमानां परितो विराजमानाम्, सेनां चमूल, नरेन्द्रस्य नृपस्य मन्दिरं सदनं तस्य रोधनं समावरणं तस्मै, समादिदेश समाज्ञातवान् ।
समुज्जजम्भे-तड़ा तस्मिन् काले, 'धरां पृथिवीम्, धुन्वन्निव, कम्पयन्निव, अद्रीन पर्वतान् , चालयन्निवोत्सारयन्निव, नभो गगनम्, दलन्निव खण्डयन्निव, संभूतः प्रभूतः, दुन्दुभरानकस्य स्वनः शब्दः, समुज्जजम्भे वर्धयामास । उत्प्रेक्षा ॥ ७५ ॥
___ तत इति-ततस्तदनन्तरम्, नटन्त इतस्ततः क्राम्यन्तो ये भटाटोपा यौसमूहास्तैटितः कृतो यो भुजास्फोटो बाहुताडनं तस्य यश्चटुलश्चञ्चलो रवः शब्दस्तेन, निष्टुरेण कठोरेण, मदवारणानां मत्तकरिणां यः कण्ठरवो गलध्वनिर्वण्टाघोपश्च घण्टाशब्दश्च ताभ्यां भैरवो भयंकरस्तेन, कण्ठीरवरवाणां सिंहशब्दानां कुण्ठने तिरस्करणे पटूनि दक्षाणि यानि पोपितहयानां परिपुष्टवाजिनां हेपितानि हेपाशब्दास्तैीषणो भयङ्करः, खरतराणामतितीच्णानां खुरपुटानां क्षुरावयवानां घट्टनेन संघर्पणेन कुट्टिमेभ्यः सुदृढभूभिप्रदेशेभ्यो जनितः समुत्पन्नो यः कठोरध्वनिः कठिनशब्दः, कण्ठीरवरवकुण्ठनपटुपोपितहयहेपितभीपणश्चासौ खरतरखुरपुटवट्टनकुट्टिमजनितकठोरध्वनिश्चेति कर्मधारयः, तथाभूतेन ध्वनिना नादेन निर्भरः सम्पूर्णम्तेन, पदातीनां पदगानां ततयः पङ्क्तयस्तासां पादाहतिभिश्चरणाघातैः प्रोद्भूतः समुत्पन्नो यो भूरिभूरवोऽविकवसुधाशब्दस्तेन भीकरो भयंकरस्तेन, सन्ततं निरन्तरं परिस्पन्दतां परिचलतां मदमन्दवेगानां युग्यानां मदेन, मन्थररयाणां स्यन्दनानां स्थानां यानि चक्रागि रथाङ्गानि तेषां चीकारोऽव्यक्तशब्दविशेपस्तेन मेदुरो मिलितो वृद्विङ्गतो वा,