________________
जीवन्धरचम्पूकाव्ये
सालकान्तं मुखाभोगं दधत्यास्तत्समाश्रियः ।
लीलादर्पणतां प्रापुः सरस्यो यत्र निमेलाः ।। ४२ ॥ यत्र च विकचपुण्डरीकषण्डमण्डिता स्फटिकस्वच्छसलिला सतारकेव व्योमलक्ष्मीः,महामहिमविराजितं विभुं विलोकितुमागतेव स्वलोककल्लोलिनी सुराङ्गनानेत्रविजिताभिरिव ह्रियान्तहिताभिः शफरीभिर्विराजिता खातिका विभाति स्म।
प्रसूनानां वाटो सुरभिलतमा यत्र वितता
ततः सालो लोलन्मणिगणपरीतः समलसत् । चतुर्दारप्रान्तान्तरविलसिते नाट्यसदने
ततो मार्गे धूपाञ्चितकनककुम्भौ व्यलसताम ।। ४३॥ या खलु तत्र संमिलितभव्यसंदोहतो भगवदर्शनेन निर्गच्छत्पापपरम्पराभिरिव धूपघटनिर्यमरेखाभिः परीताभ्रभागा, ककुष्कामिनीजनकर्णपूरायमाणपल्लवतल्लजविराजितानामिन्द्रोद्यानजयार्थमुदस्तहस्तानामिवाभ्रङ्कषशाखानां चैत्यवृक्षाणां चतुष्टयेन विभ्राजितैर्विविधविचित्रधारायन्त्रलतामण्डपकाञ्चनक्रीडाशैलपेशलैश्चतुर्भिरुपवनैरुपेता, नानाविधमणिगणखचिततोरणया सुवर्णवेदिक यालङ्कृता, शिखावलदन्तावलदन्तिवैरिप्रमुखलाञ्छनलाञ्छिताभिर्गगनतलोद्वेल्लनसमाकृष्टसुरतरङ्गिणीतरङ्गसम्भावनासंपादकव्यामुक्तमुक्ताफलरुचिनिचयरुचिराभिर्वैजयन्तीभिर्विलसिता, भगवन्मुख
सालकान्तमिति-यत्र विमला निर्मलाः, सरस्यः कासाराः, अलकान्तैश्चूर्णकुन्तलान्तैः सहित इति सालकान्तस्तम्, पक्षे सालेन प्राकारेण कान्तो मनोहरस्तम्, मुखाभोगमग्रप्रदेशं वक्त्रप्रान्तञ्च, दधत्याः, सभाश्रियः समवसरणलक्ष्म्याः , लीलादर्पणतां केलिमुकुरताम्, प्रापुर्लेभिरे ॥ ४२ ॥
यत्र चेति-यत्र च यस्यां च सभायाम, विकचपुण्डरीकषण्डेन प्रस्फुटकमलसमूहेन मण्डिता शोभिता स्फटिकमिव सितोपल इव स्वच्छं निर्मलं सलिलं जलं यस्यास्तथाभूता, खातिका परिखा, सतारका सनक्षत्रा, व्योमलक्ष्मीरिव गगनश्रीरिव, महामहिमविराजितं लोकोत्तरप्रभावशोभितम्, विभु जिनेन्द्रम्, विलोकितुम्, द्रष्टुम्, आगता समायाता, स्वर्लोककल्लोलिनीव सुरपुरस्रवन्तीव सुराङ्गनानां नेत्रविलासैनयनचेष्टितैविजितास्ताभिरिव, ह्रिया त्रपया, अन्तर्हिताभिरन्तर्गताभिः, शफरीभिनिः, विराजिता शोभिता, खातिका परिखा, विभाति स्म शोभते स्म ।
प्रसनानामिति-यत्र समवसरणसभायाम्, सुरभिलतमा सुगन्धियुक्ता प्रसूनानां कुसुमानाम्, वाटी वनी, वितता विस्तृता, ततस्तदनन्तरम्, लोलन्मणिगणैः शोभमानरत्नसमू हैः परीतो व्याप्तः, सालो वप्रः, समलसत् शुशुभे, ततस्तदनन्तरम्, चतुर्णा द्वाराणां प्रान्तान्तरेषु मध्यावकाशेषु विलसिते शोभिते, नाट्यसदने नृत्यनिकेतने, व्यलसताम् व्यशोभेताम् । शिखरिणीच्छन्दः ॥ ४३ ॥
या खल्विति-या खलु धर्मसभा, तत्र संमिलिताश्च ते भव्याश्चेति संमिलितभव्यास्तेषां संदोहस्तस्मात् , भगवद्दर्शनेन जिनेन्द्रावलोकनेन निर्गच्छन्त्यो निगलन्त्यो याः पापपरस्परा दुरितश्रेणयस्ताभिरिव, धूपघटेभ्यो धूपकुम्भेभ्यो निर्यन्त्यो या धूमरेखा धूम्रलेखास्ताभिः, परीतो व्याप्तोऽभ्रभागो गगनप्रदेशो यस्यां सा, ककुष्कामिनीजनानां काष्ठाङ्गनाजनानां कर्णपूरायमाणैः श्रवणालंकारायमाणैः पल्लवतल्लजैः किसलयश्रेष्ठैविराजितानां शोभितानाम्, इन्द्रोद्यानजयाथ नन्दनोपवनविजयार्थम्, उदस्तहस्तानामिव समुन्नीतपाणीनामिव, अभ्रङ्कपशाखानां गगनचुम्बिकाण्डानाम्, चैत्यवृक्षाणां चैत्यतरूणाम्, चतुष्टयेन चतुष्केण, विभ्राजितैः शोभितैः विविधानि नैकप्रकाराणि विचित्राणि विस्मयावहानि धारायन्त्राणि जलयन्त्राणि, लतामण्डपानि निकुञानि काञ्चनक्रीडाशैला; सुवर्णकेलिपर्वतास्तद्वत्पेशलैमनोहरैः चतुर्भिश्चतुःसंख्याकैः उपवनैरुद्यानैः, उपेता सहिता, नानाविधमणिगणैरनेकरत्नसमूहैः खचितौ निःस्यूतौ तोरणौ यस्यां तथाभूतया, सुवर्णवेदिकया काञ्चनवितर्दिकया, अलंकृता शोभिता, शिखावलो मयूरः, दन्तावलो हस्ती, दन्तिवैरी सिंहः, ते प्रमुखाः प्रधाना येषु तथाभूतानि यानि लान्छनानि चिह्नानि तैलाञ्छिताभिश्चिह्निताभिः, गगततलोद्वेल्लनेन विहायस्तलप्रसरणेन, समाकृष्टाः ये सुरतरङ्गिणीतरङ्गा गङ्गाकल्लोलास्तेषां संभावनाया उत्प्रेक्षायाः सम्पादकानि कारकाणि