SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २२७ एकादशो लम्भः चलितः, पुरतः परिस्फुरन्तं पद्माकरमागत्य, तत्र कान्ताजनगतिनिरीक्षणलजितेष्विव मञ्जलमञ्जरीरवानुकारिविरावमुखरितारामेषु क्षणादुड्डीनेषु राजहंसेपु, निरवशेपमसञ्जातपक्षतया गगनौद्मनायासमर्थम् , विकचवारिजे सत्रासं विल्ठन्तम् , पद्मिनीमुखकमलचलाचलनासामुक्ताफलायमानम् , वनदेवताविकचकुसुमकन्दुकशङ्काकरम , अतिपेशलं राजहंसशावक केनचिदनुचरेण भवनमानाय्य, कनकशलाकाकलितपञ्जरे निवेश्य, मधुरक्षीरोदनाद्युपचारेण निरवद्यं विवर्धयामास । कदाचित्कान्तानां कुचकलशसीम्नि प्रियतमो भवान्वालं हंसं नरवर निधायैवमवदत् । अये त्वं पद्यानां विरहमनुभोक्तु न हि पटु र्यतस्तद्वक्षोजाम्बुजमुकुलयुग्मेऽद्य विहर ।। ३६।। एवं मरालपोतमरालकुन्तलाभिः कान्ताभिः सह सन्ततं क्रीडयति भवति सहर्पमास्थिते, धर्मविदामग्रगीस्ते पिता हंसा कबन्धनोदन्तमाकर्ण्य कुपितस्त्वामाहूय बहुधा धर्मपरिपाटी प्रकटयामास । तदनु कर्णामृतायमानधर्मबोधनविज़म्भितनिर्वेदः पित्रा निवारितोऽपि भवान्वैराग्यसमासादितजिनदीक्षादुश्वरतपश्चरणदक्षः, कान्ताभिरष्ठाभिः साकं लोकोत्तरं तपःप्रकारमासाद्य, करिणीभिर्हस्तिनीभिः सह, करीन्द्र इव गजेन्द्र इव, सहर्ष सानन्दं यथा स्यात्तथा, उपवनविहाराय उद्यानक्रीडाय, चलितः प्रस्थितः, पुरतोऽग्रे, परिस्फुरन्तं शोभमानम्, पद्माकरं तटाकम्, आगन्य सभासाद्य, तत्र पद्माकरे, कान्ताजनस्य जायासमूहस्य गतिनिरीक्षणेन गत्यवलोकनेन लज्जितेष्विव ब्रीडितेष्विव, मजुलो मनोहरो यो मञ्जीररवो नूपुरशब्दस्तस्यानुकारिणा विडम्बकेन विरावेण शब्देन मुखरितो वाचालितः आरामो यस्तेषु, राजहंसेषु मरालविशेषेषु, क्षणादल्पेनैव कालेन, उड्डीनेषु समुत्पतितेषु सन्सु, निरवशेष सम्पूर्ण यथा स्यात्तथा, असंजातपक्षतया-अनुभूतगरुत्तया, गगनोगमनाय अम्बरोत्पतनाय, असमर्थम् अशक्तम्, विकचवारिजे स्फुट कमले, सभासं सभयं यथा स्यात्तथा, विलुण्ठतं लुण्ठनं कुर्वन्तम्, पद्मिन्याः कमलिन्याः मुखकमले वक्त्रवारिजे चलाचलं चञ्चलं यन्नासामुक्ताफलं घ्राणमौक्तिकं तद्वदाचरत् , पद्माकरवास्तव्या तटाकवासिनी या पद्मा लक्ष्मीस्तस्या वदनसरोजान्मुखारविन्दात् विगलत् पतत् यन्मन्दहासखण्डं स्मितशकलं तद्वत्संभाव्यमानं समुत्प्रेक्ष्यमाणम्, वनदेवतायाः काननदेव्या विकचकुसुमकन्दुकं प्रस्फुटितपुष्पगेन्दुकं तस्य शङ्काकरं संशयदायकम्, अतिपेशलमत्यन्तमनोहरम्, राजहंसशावकं मरालबालकम्, केनचित् केनापि, अनुचरेण सेवकेन, भवनं राजमन्दिरम्, आनाय्य प्रापप्य, कनकशलाकाभिः सुवर्णदण्डिकाभिः कलितो निर्मितो यः पञ्जरः शलाकागृहं तस्मिन् , निवेश्य स्थापयित्वा, मधुरक्षीरोदनाद्युपचारेण मिष्ठदुग्धभक्तप्रभृत्युपचारेण, निरवयं निदोष यथा स्यात्तथा, विवधयामास पालयामास । ___कदाचित्कान्तानामिति-हे नरवर हे पुरुषोत्तम, प्रियतमोऽतिशयेन वल्लभः, भवांस्त्वम्, बालं हंसं मरालशिशुम्, कदाचिज्जातुचित्, कान्तानां ललनानाम्, कुचकलशाम्नि वक्षोजकुम्भसीमायाम्, निधाय निक्षिप्य, एवमनेन प्रकारेण, अवदत् जगाद, हि निश्चयेन, अये हे मरालबाल ! त्वं पद्मानां कमलानाम्, विरहं विप्रलम्भम्, अनुभोक्तुमनुभवितुम्, न पटुन समर्थोऽसि यतः कारणात्, तत् तस्मात् कारणात्, अद्य साम्प्रतम्, वक्षोजाम्बुजमुकुलयुग्मे स्तनारविन्दकुड्मलयुगले, विहर विहारं कुरु । शिखरिणीच्छन्दः ॥ ३६॥ __ एवमिति–एवमनेन प्रकारेण, मरालपोतं हंसशिशुम्, मरालकुन्तलाभिः, कुटिलकेशाभिः कान्ताभिः, पत्नीभिः, सह साकम्, सन्ततं शश्वत्, क्रीडयति क्रीडां कारयति, भवति त्वयि, सहर्ष सप्रमोदं यथा स्यात्तथा, आस्थिते विद्यमाने सति, धर्मविदां धर्मज्ञानाम्, अग्रणीरनेसरः, ते तव, पिता जनकः, हंसाकस्य मरालबालकस्य बन्धनोदन्तं बन्धनवृत्तान्तम्, आकर्ण्य निशम्य, कुपितः क्रुद्धः सन् , त्वां भवन्तम्, आहूय आकार्य, बहुधा नेकविधं यथा स्यात्तथा, धर्मपरिपाटी धर्मसन्ततिम्, प्रकटयामास स्पष्टीचकार । तदनु तदनन्तरम्, कर्णामृतायमानं श्रवणपीयूषायमाणं यद्धर्मबोधनं धर्मोपदेशस्तेन विज़म्भितो वर्धितो निर्वेदो वैराग्यं यस्य सः, पित्रा जनकेन, निवारितोऽपि प्रतिषिद्धोऽपि, भवान् , वैराग्येण विरक्त्या समासादिता
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy