________________
१६१
दशमो लम्भः तुलितां कृपाणीलतां बिभ्राणेन 'इदं मदीयनामधेयपूर्वभागं विभति' इति रोषादिव पदद्वये निकृत्तोऽपि, अखण्डितमात्मसत्त्वमिव घनवंशजातं चापमालम्व्य, शूगे न पपात ।
नीलाभ्रतुल्ये कवचे भटस्य नीते प्रभेदं करवालवल्लया । तत्र प्रवृत्ता बनशोणितालिः सौदामिनीसाम्यमवाप दीर्घा ॥ ६ ॥ कश्चिद्भटः शत्रुशरैः परीतसमस्तदेहः समिति व्यलासीत् ।।
यथा महीजः प्रचुरप्ररोहो यथा च नागाततचन्दनदुः ।। ६१ ।।
वीराग्रेसरः पदचरः प्रथितरिपुमण्डलामखण्डितमस्तकविगलदसृग्धागभयङ्करमुखभागतया बहिः प्रमृतया क्रोधपरम्परया परीत इव मृत्युमूर्धानं दृढतरमुष्णीपेग प्रभुकार्यापरिसमानौ प्राणोत्क्रमणं निरोद्धृमिव निवध्य करे कृपाणं मनसि धैर्य सपत्ने दृष्टिं महीतले रिपुशिरःसहस्रपतनं च युगपदातन्वानः क्रतुभुजां श्लाघानां पुष्पवृष्टीनां च पात्रमजायत ।
सैन्यद्वये तत्र विमिश्रितेऽपि विशेष एप व्यलसद्रणाये। स्वीयाः पराश्च पदगाः पुरस्ताद्ये संमुखास्ते रिपुसैन्यवर्गाः ॥६॥
वैजयन्ती पताका तया तुलिता सन्निभा ताम्, कृपाणीलतां खड़गवल्लरीम्, बिभ्राणेन गृह्णता, केनचित् केनापि, पदगेन पदातिना, 'इदं पदद्वयम्, मदीयनामधेयस्य मामकनाम्नः पूर्वभागं पूर्वावयवम्, विभर्ति दधाति' इति रोषादिव इति क्रोधादिव, पदद्वये चरणयुगले, निकृत्तोऽपि छिन्नोऽपि, शूरो योद्धा अखण्डितमत्रुटितं पक्षेऽस्खलितम्, आन्मसत्त्वमिव स्वकीयधैर्यमिव, घनवंशजातं सुदृढवेणुसमुत्पन्नं पक्षे सुकुलोत्पन्नम्, चापं धनुः, आलम्ब्य समाश्रित्य, न पतात न पतति स्म, छिन्नपादोऽपि धनुष्टिसाहाय्येन भुवि तस्थाविति भावः ।
नीलाभ्रतुल्य इति-नीलाभ्रतुल्ये श्यामपयोदप्रतिमे, भटस्य शूरस्य, कवचे वारवाणे, करवालवल्ल्या कृपाणलतया, प्रभेदं प्रभिन्नतां नीते प्रापिते सति, तत्र कवचे, प्रवृत्ता प्रादुर्भूता, दीर्घा विशाला, घनशोणितालिः सान्द्ररुधिरपङ्क्तिः , सौदामिन साम्यं विद्युत्सादृश्यम्, अवाप लेभे ॥ ६ ॥
कश्चिद्भट इति–समिति समरे, शत्रुशरै रिपुवाणः, परीतो व्याप्तः समस्तदेहो निखिलशरीरो यस्य तथाभूतः, कश्चित् कोऽपि, भटो योद्धा, प्रचुरा भूयांसः प्ररोहा अङ्कुरा यस्य तथाभूतः, महीजो यथा वृक्ष इव, नागैः पन्नगैराततो व्याप्त इति नागाततः स चासौ चन्दनद्रुश्च मलयजमहीरुहश्चेति नागाततचन्दनदुः, यथा च इव च, व्यलासीच्छोभते स्म ॥ ६॥
वीराग्रेसर इति-वीराग्रेसरः शूरप्रधानः, पदचरः पदातिः, प्रथितरिपोः प्रसिद्धशत्रोः मण्डलाओण कृपाणेन खण्डितं निकृत्तं यन्मस्तकं शिरस्तस्माद्विगलन्ती पतन्ती या मृग्धारा रुधिरसन्ततिस्तया भयङ्करो भीत्युत्पादको मुखभागो यस्य तस्य भावस्तत्ता तया, बहिःप्रसृतया बहिनि:सतया, क्रोधपरम्परया रोषसन्तत्या, परीत इव व्याप्त इव, मृत्युनोपलक्षितो मूर्धा मृत्युमूर्धा तम्, मृतशिरः, उष्णीषेण शिरोवेष्टनवस्त्रेण, प्रभुकार्यस्य स्वामिकृत्यस्यापरिसमाप्तावनवसाने प्राणोन्क्रमणं जीवननिःसरणम्, निरोधुमिव निवारयितुमिव, दृढतरं सुदृढं यथा स्यात्तथा, निबध्य निबद्ध कृत्वा, करे हस्ते, कृपाणं करवालकं, मनसि चेतसि, धैर्य धीरताम्, सपल्ने शत्रौ दृष्टिं दृशम्, महीतले भूपृष्टे, रिपुशिरःसहस्रपतनञ्च शत्रुमस्तकसहस्रावपातञ्च, युगपदेककालावच्छेदेन, आतन्वानः कुर्वाणः, ऋतुभुजां देवानाम्, श्लाघानां प्रशंसानाम्, पुष्पवृष्टीनाञ्च सुमनोवर्षाणान्च, पात्रं भाजनम्, अजायत बभूव ।
सैन्यद्वय इति-तत्र रणाने तस्मिन् समरमुखे, सैन्यद्वये पक्षद्वयसैन्ये, विमिश्रितेऽपि सम्मिलितेऽपि एष एव विशेषः एतावदेव वैशिष्टयम्, व्यलसद् व्यशोभत्, यद् स्वीयाः स्वकीयाः परा वा परकीया वा ये पदगाः पत्तयः, पुरस्तादग्रे, संमुखा अभिमुखाः आसन् , त एव, रिपुसैन्यवर्गाः शत्रुसैनिकवर्गाः, आसन्निति शेषः, सैन्यद्वये परस्परं मिलिते सति शत्रु मित्रपक्षाभिज्ञानं नावशिष्टं किन्तु यो यस्य पुरस्तात्तस्थौ स एव तस्य शत्रुरासीदिति भावः ॥६२॥