________________
१८६
दशमो लम्भः चक्रेण कृत्तं निजमेव हस्तमग्रप्रदेशाद्धरणौ पतन्तम् । पिपेष पादेन रुपा परीतः करेणुराजः सुतरक्तपङ्कम् ।। ५२ ।। गृहीतो नागेन प्रतिभटवरः पुष्करगतो
__वितन्वानो डोलामसिनिहतहस्तेन करिणा । पदा पेष्टुं नीतः सपदि पदमध्ये प्रचलितो
गृहीत्वा बालाने व्यसुममुमधान्मुष्टिहतिभिः ।। ५३ ॥ तत्र फुल्लकुन्दकुसुमावदाता जितवातजवना वाजिनो गगनतलात्क्षिमाप्रपादतया नभ:स्थलमाक्रमितुमिव प्रवृत्ताः, पुरतः पतितानि महाशैलकुलानीव दन्तावलशरीराणि लवयन्तः, संगरसागरे परस्परं कलहायमानाः कल्लोला इव विरेजिरे ।
खुराघातैः कश्चित्प्रजवनयः कम्पितधरः
पृषकैः कीर्णाङ्गोऽप्यविरहितशिक्षानुसरणः । पढ़े खड्गच्छिन्नोऽप्यहितसुभटेनापतदसौ
न तावद्यावत्तं न निजवरसादी निहतवान् ।। ५४ ॥ छिन्नेऽपि दक्षिणभुजे करवालवल्ली
वामे करे विचलयन् रिपुमाप सादी। वीरस्य तस्य रिपुखण्डनकेलिकाया
__मक्षीणशक्तिरगमत् स हि दक्षिणत्वम् ।। ५५ ।।
चक्रेण कृत्तमिति–रुपा कोपेन, परीतो व्याप्तः, करेणुराजो गजेन्द्रः, चक्रेण शस्त्रविशेषेण, कृत्तं छिन्नम्, अग्रप्रदेशान्मुखाग्रभागात् , धरणौ पृथिव्याम्, पतन्तं स्खलन्तम्, सुतः क्षरितो रक्तपङ्को रुधिरकर्दमो यस्मात्तम्, निजमेव स्वकीयमेव, हस्तं शुण्डाम्, पादेन चरणेन, पिपेप पिनष्टि स्म । क्रोधे को विवेक इति भावः ॥५२॥
गृहीतो नागेनेति-नागेन गजेन, गृहीत आत्तः, पुष्करगतः शुण्डाग्रभागस्थितः प्रतिभटवरो विपक्षयोद्धा, असिना खड्गेन निहतः खण्डितो हस्तो यस्य तेन, करिणा गजेन, डोलां हिन्दोलिकाम्, वितन्वानः कुर्वाणः सन् , पदा चरणेन, पेष्टुं चूर्णयितुम्, पदमध्ये चरणमध्ये, नीतः प्रापितः, किन्तु, सपदि झटिति, प्रचलितः प्रकर्षेण चलितः सः, वाला पिच्छाग्रे, गृहीत्वा समालम्व्य, मुष्टिहतिभिर्मुष्टिप्रहारः, अमुं गजम् , विगता विनष्टा असवः प्राणा यस्य तं मृतमिति यावत्, व्यधात् अकार्षीत् । शिखरिणीग्छन्दः ॥५३॥
तत्र फुल्लकुन्देति-तत्र तस्मिन् , संगरसागरे समरपयोनिधी, फुल्लकुसुमानीव प्रस्फुटितमाध्यपुष्पाणीवावदाताः समुज्ज्वलाः, जितवातजवनाः पराभूतपवनवेगाः, वाजिनो हयाः, गगनतले नभस्तल उत्क्षिप्तावुत्थापितावग्रपादौ पुरश्चरणौ येषां तेषां भावस्तत्ता तया, नभःस्थलं गगनतलम्, आक्रमितुमुल्लंघयितुम्, प्रवृत्ता इव तत्परा इव, पुरतः पुरस्तात् , पतितानि भ्रष्टानि, महाशैलकुलानीव महाचलकदम्बकानीव, दन्तावलशरीराणि गजेन्द्रकायान् , लङ्घयन्तः समुत्क्राम्यन्तः, परस्परं मिथः, कलहायमानाः कलहं कुर्वाणाः, कल्लोला इव तरङ्गा इव, विरेजिरे शुशुभिरे ।
खुराघातैरिति-खुराणां शफानामाघाताः प्रहारास्तैः कम्पिता वेपिता धरा पृथिवी येन तथाभूतः, कश्चित् कोऽपि प्रजवनश्चासौ हयश्चेति प्रजवनहयः प्रकृष्टवेगवाहः, पृषकैर्वाणैः, कीर्णाङ्गोऽपि व्याप्तशरीरोऽपि, अहितसुभटेन शत्रुशूरण, पदे चरणे, खड्गच्छिन्नोऽपि कृपाणकृत्तोऽपि, अविरहितमत्यक्तं शिक्षानुसरणं येन तथाभूतः, असौ हयः, तावत् तावत्कालपर्यन्तम्, न अपतत् नो पपात, यावत् यावत् कालपर्यन्तम्, निजवरसादी स्वारोहिजनः, तमाहितसुभटम्, न निहतवान् नो निजघान । शिखरिणीच्छन्दः ॥५४॥
छिन्नेऽपि दक्षिणभुज इति-सादी हयारोही, दक्षिणभुजे वामेतरवाहो, छिन्नेऽपि कृतेऽपि सति