________________
दशमो लम्भः धीरो वारिधिमेखलां वसुमती प्राक्पालयामास य
स्तस्य श्लाघ्यगुणस्य मान्ययशसः सत्यधरस्यात्मजः। एष द्वेषिमहीपदावदहनः प्रख्यातदोर्विक्रमः
___श्रीमान मे भगिनीसुनो विजयते वीरश्रिया वल्लभः ॥ २२ ॥ वसुधाधिपा धनुपि पाटवात्तथा
वपुषि स्फुरद्विशदलक्षणाक्षणात् । क्षितिपालसूनुरयमित्यथास्मर
नवलोक्य तं ललितमभ्यनन्दिषुः ॥ २३ ॥ एवंविधगोविन्दनरपतिवचनेनाशनिगर्जनेन भुजग इव भीतमानसविकारः काष्ठाङ्गारी मनसि चिन्तामेवं तरङ्गयामास ।
सत्यन्धरस्य सूनुश्चेदयं हन्त हता वयम् ।
जागरूका भवन्त्यस्मिन् वीयशौयपराकमाः ॥ २४ ॥ पुरास्मदीयामाज्ञां मालामिव शिरसा समाधानो मथनो वणिक्पाशमेनं कथमवधीत् । अतः सर्वः स्वार्थपरों लोक इति सत्यमेतत् । किं वास्य मातुलः समाहूतः । धिङ्मां मूढपरिबृढ
वल्लि-वल्ली अवनि-अवनीत्यादयः शब्दा हस्वदीर्घाभ्यां यथेच्छं प्रयुज्यन्ते कविभिः, राज्ञां भूपालानाम्, धुरि पुरस्तात् , ऊच्चैरुच्चस्वरेण, इदं वच्यमाणम्, जगाद समुवाच ॥२३॥
धीरो वारिधिमेखलामिति-प्राक् पूर्वम्, धीरो गम्भीरः, यः, वारिधिरेव मेखला रशना अस्यास्तां समुद्रान्तामिति यावत् , वसुमती पृथिवीम् , पालयामास ररक्ष, श्लाघ्याः प्रशंसनीया गुणा यस्य तस्य, मान्यं समादरणीयं यशः कीर्तिर्यस्य तस्य, सत्यन्धरस्य तन्नामनरेन्द्रस्य, आत्मजः पुत्रः, द्वेषिमहीपा एव प्रत्यर्थिपार्थिवा एव दावा वनानि तेषां दहनोऽनल : 'वने च वनवह्नौ च दवो दाव इहेष्यते' इति विश्वः, प्रख्यातः प्रसिद्धो दोविक्रमो भुजपौरुषं यस्य तथाभूतः, श्रीमान् शोभासम्पन्नः, चीरश्रिया वीरलक्ष्म्याः , वल्लभः स्वामी, एष सर्वेषां भवतां पुरस्तादासीनः, मे मम, भगनीसुतः स्वस्रीयः, विजयते सर्वोत्कर्षण वर्तते । शार्दूलविक्रीडितच्छन्दः ॥२२॥
वसुधाधिपा इति-अथ गोविन्दभूपोक्त्यनन्तरम्, वसुधाधिपा राजानः, ललितं मनोहरम्, तं जीवन्धरम्, अवलोक्य दृष्ट्वा, धनुषि कोदण्डे, तथा सत्यन्धरमहाराजस्य यथाभूत्तादृशात् , पाटवाच्चातुर्यात् , वपुषि देहे, स्फुरत्प्रकाशमानं विशदं निर्मलं यल्लक्षणं चिह्न तस्मात् , क्षणादचिरेण, अयमेषः, क्षितिपालस्य सत्यन्धरभूपालस्य सूनुः पुत्रः, इतीत्थम्, अस्मरन् निध्यायन्ति स्म, ललितं मनोहरं तं पुत्रम्, अभ्यनन्दिषुरभिनन्दितवन्तः । मजुभाषिणीवृत्तम् ॥३३॥
एवंविधेति-एवं विधं पूर्वोक्तप्रकारम् यद् गोविन्दनरपतिवचनं गोविन्दभूपालवचस्तेन, अशनिगर्जनेन वज्रगर्जितेन, भुजग इव पन्नग इव, भीतस्त्रस्तो मानसविकारश्चेतोविकारो यस्य तथाभूतः काष्टाङ्गारः, मनसि चेतसि, एवं वचयमाणप्रकाराम, चिन्तां तर्कपरम्पराम्, तरङ्गयामास वर्धयमास ।
सत्यन्धरस्य सूनुरिति-चेद् यदि, अयमेषः, सत्यन्वरस्य महाराजस्य, सूनुः पुत्रः, अस्ति तहीति शेषः, वयम्, हता नष्टाः, हन्तेति खेदे, अस्मिन् नरेन्द्रनन्दने, वीर्य च शौर्यं च पराक्रमश्चेति वीर्यशौर्यपराक्रमाः शक्तिसुभटत्वपौरुषाणि, जागरूका जागृतिशीलाः, भवन्ति विद्यन्ते ॥२४॥
पुरास्मदीयामाज्ञामिति-पुरा पूर्वम्, अस्मदीयां मामकीनाम्, आज्ञामादेशम्, मालामिव स्रजमिव, शिरसा मूर्ना, समादधानो धरन् , मथन एतन्नामा मच्छ्यालः, एनमेतम्, वणिक्पाशं दुष्टव णिजम्, कथं केन प्रकारेण, अवधीत् जघान । अतोऽस्मात्कारणात् , सर्वो निखिलः, लोको जनः, स्वार्थपरः स्वप्रयोजनसाधननिपुणः, इत्येतदाभाणकम्, सत्यं तथ्यम् । अस्यैतस्य, मानुलो मामो गोविन्दमहीपाल इति यावत् , किं वा केन कारणेन वा, समाहूतः समाकारितः। मूढपरिवृढं मूर्खस्वामिनम्, अतएव, आत्मवधाय स्वविना