________________
दशमो लम्भः बराह्यन्त्रमभितो धराधीशाश्चकाशिरे ।
कुलाद्रि परितः कीर्णाः शिलाखण्डलवा इव ।। १६॥ ततश्च मगधाधिपे विदितशक्तिलोपे भृशं
कलिङ्गनरनायके विषयमस्पृशत्सायके । नृपे च विनतापुरो निहितलक्ष्यधूलीहरे
शरव्यचलनोदरे प्रथितपीढ़नाधीश्वरे ।। १६ ।। अयोध्याभूपाले भुवि पतति धैर्येण विकले
तथावन्तीनाथे वितथभुजशौर्ये मितकथे । नृपेप्वन्येष्वेवं कुवलयदृशां हासविपये
ध्वयं काष्ठाङ्गारः कुतुकवशचिनः प्रचलितः ।। १८ ।। तदनु काष्टाङ्गारो दर्पदुर्ललिताकारः कलभनिभचारः, तद्यन्त्राधोभागभ्रमचक्रे पादं निधाय पारवश्येन भुवि पतितः, क्षितिपतिवलयस्य कमलाक्षीजनस्य च हास्यवदान्यो वभृव ।
कुमारेऽस्मिन्धीरे सहचरघटामध्यलसिते
___ यथा प्रोद्यत्तारागणपरिवृते शीतकिरगे । तदानी गोविन्दक्षितिपतिरदादृष्टिमधिका
__मुदस्थात् सोऽप्येप स्मितविशदवक्त्रः कुरुवरः ।। १६ ॥ वराहयन्त्रमभित इति-वराहयन्त्रं यन्त्रविशेषम्, अभितः परितः, धराधीशा राजानः, कुलाहिं कुलाचलम्, परितः समन्तात्, कीर्णाः व्याप्ताः, शिलाखण्डलवा दृपच्छकलांशा इव, चकाशिरे शुशुभिरे ।। १६॥
ततश्चेति-ततश्च तदनन्तरञ्च, मगधाधिपे मगधेश्वरे, भृशमत्यर्थम्, विदितः प्रज्ञातः शक्तिलोपोऽसामर्थ्य यस्य तथाभूते, कलिङ्गनरनायके, कलिङ्गभूपाले, विषयं शरव्यम्, अस्पृशन् स्पर्शमकुर्वन् सायको बाणो यस्य तथाभूते, विनतापुर एतन्नामनगरस्य, नृपे च राजनि च, निहितं धृतं यल्लच्यं शरव्यं तस्य धूलीहरे रजोहरे न तु घातके, प्रथितपौदनाधीश्वरे प्रख्यातपोदनपुराधिपे, शरव्यचलनं लक्ष्यभ्रंशकमुदरं यस्य तथाभूते सति, अत्र सर्वत्र 'यस्य च भावे भावलक्षणम्' इति सप्तमी, अग्रश्लोकेन सम्बन्धः । पृथ्वीच्छन्दः॥ १७॥
अयोध्याभूपाल इति-धैर्येण स्थैर्येण, विकले शून्ये, अयोध्याभूपाले साकेताधिपे, भुवि पृथिव्याम्, पतति स्खलति, सति, तथा तेनैव प्रकारेण, अवन्तीनाथेऽवन्तीदेशाधिपे, वितथं व्यर्थ भुजशौर्य बाहुपराक्रमो यस्य तथाभूते, मितकथेऽल्पभाषणे च सति, एवमनेन प्रकारेण, अन्येष्वपि नृपेषु राजसु, कुवलयदृशां नीलोत्पललोचनानाम्, हासविषयेषु हास्यस्थानेषु सत्सु, कुतुकवशं कौतूहलायत्तं चित्तं यस्य तथाभूतः, काष्टाङ्गारो राजघः, प्रचलितो वराहयन्त्रं भेत्तु प्रचलितवान् ॥ १८ ॥
तदन्विति-तदनु तदनन्तरं दर्पण गर्वेण दुर्ललितो विषम आकारः संस्थानं यस्य तथाभूतः, कलभनिभचारो गजशावकसदृशगमनः, काष्टाङ्गारः कृतन्नः, तद्यन्त्रस्य पूर्वोक्तवराहत्रयोपलक्षितयन्त्रस्याधोभागे निम्नप्रदेशे, भ्रमच्चक्रे घूर्णमानरथाङ्गे, पादं चरणम्, निधाय निक्षिप्य, पारवश्येन पारतन्त्र्येण, भुवि पृथिव्याम्, पतितो भ्रष्टः सन् , क्षितिपतिवलयस्य राजसमूहस्य, कमलाक्षीजनस्य च ललनासमूहस्य च, हास्यवदान्यो हसितोदारः, बभूव । तं पतितं दृष्ट्वा सर्वे हसन्ति स्मेति भावः ।
कुमारेऽस्मिन्निति तदानीं तस्मिन् काले, गोविन्दक्षितिपतिर्गोविन्दमहाराजः, प्रोद्यत्तारागणेन समुदीयमाननक्षत्रनिचयेन परिवृते परीते, शीतकिरणे चन्द्रमसि, यथा, धीरे गम्भीरे, सहचरघटाया मित्रमण्डलस्य मध्येऽन्तर्लसितः शोभितस्तस्मिन् , अस्मिन् कुमारे जीवन्धरे, अधिकां विपुलाम्, दृष्टि शम्, अदात् दत्तवान् , स्मितेन मन्दहसितेन विशदं धवलं वक्त्रं वदनं यस्य तथाभूतः, स एष लोकोत्तरकौशलनिकेतनीभतः, कुरुवरोऽपि जीवन्धरोऽपि उदस्थात् उदतिष्ठत् 'टा गतिनिवृत्तौ' इत्यस्य लुङि रूपम् 'गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु' इति सिचो लुक् । शिखरिणीच्छन्दः ॥ १६ ॥
२३