________________
१३४
जीवन्धरचम्पूकाव्ये
को वा देशः पचेलिमभाग्यः श्रीमदीयप्रवालकोपमपद्युगलस्पर्शसुखमनुभविष्यति। कीदृशपुरप्रासादाङ्गणालङ्करणरमणीनां नयनकुवलयेषु श्रीमदीयसन्दर्शनकन्दलितानन्दवाष्प निष्यन्दोमकरन्दशङ्कामङ्कुरयिष्यति । कस्यां वा वंशवल्ल्यां विमुक्तोपमानोऽपि भवान्मुक्ताफलायते । कः पुनः श्रीमता पुत्रवतां मौलिमाणिक्यतामारोपितो भाग्यवतां माहात्म्यवतां कीर्तिमतां च । इत्यादिप्रश्नपदवीं यथायोग्योत्तराक्षरैः ।
लङ्घयामास जङ्घालः स्वामी वचनवर्त्मनि ॥५३॥ विनयकन्दलितैर्विमलोत्तरैर्नरपतिर्द्विगुणीकृतकौतुकः । चिरमयाचत नन्दन संसदां वरशरासकलाप्रतिपादनम् ||५४|| विज्ञाय तदभिप्रायं प्रज्ञाशाली नराधिपः । कौरवस्य वशे चक्रे कुमारानखिलानपि || ५५ ।।
तदनु कोदण्डभिण्डिपालपरिघमुद्गरपरश्वधादिपरिष्कृताम्, क्षोणीमित्र शरधिभिरलङ्कृताम्, त्रिदशनगरीमिव सर्वतोऽमर सेविताम्, जलधिवेलामिव प्रचुरतरवारिविराजिताम्, वनसीमाभित्र
येषां तथाभूताः सन्तीति शेषः, कुत आगतो भवानिति भावः क्वत्यानां कुत्रभवानाम्, नयनानन्दो लोचनहर्षः, दर्शनाद् भवद्विलोकनात्, सम्भविष्यति समुत्पत्स्यते, कुत्र गमिष्यति भवानिति भावः ॥५२॥
को वा देश इति - पचेलिमं पाकाई भाग्यं सुदैवं यस्य तथाभूतः को वा देशो जनपदः, श्रीमदीयं भवदीयं प्रचालकोपमं किसलयतुल्यं यत्पदयुगलं चरणयुगं तस्य यत् स्पर्शसुखं संसर्गशातम् तत्, अनुभवि - व्यति प्राप्स्यति । कीदृशस्य किम्प्रकारस्य पुरस्य नगरस्य प्रासादाङ्गणानां भवनाजिराणामलङ्करणानि भूषणानि या रमण्यो ललनास्तासां नयनकुवलयेषु नेवनीलारविन्देषु, श्रीमदीयसन्दर्शनेन भवदीयावलोकनेन कन्दलितः समुत्पन्नो यो बाप्प निष्यन्दो हर्षाश्रुभरः सः, मकरन्दशङ्कां कौसुमसन्देहम्, 'मकरन्दञ्च कौसुमम्' इति धनञ्जयः, अङ्कुरयिष्यति जनयिष्यति । कस्यां वा किन्नामधेयायां वा वंशवल्ल्यां गोत्रसन्ततौ पक्षे वेणुलतायाम्, मुक्तारूपमुपमानं मुक्तोपमानं विगतं मुक्तोपमानं यस्य तथाभूतः सन्नपि मुक्ताफलोपमारहितोऽपि पक्षे विमुक्तं दूरीभूतमुपमानं यस्य तथाभूतोऽपि सन्, मुक्ताफलायते मुक्ताफलमिवाचरति, पुनः किञ्च कः किन्नामधेयो जनः श्रीमता भवता, पुत्रवतां सुतयुक्तानाम्, भाग्यवतां भाग्यशालिनाम्, माहात्म्यवतां महत्त्वोपेतानाम्, कीर्तिमताञ्च यशस्विनाञ्च, मौलिमाणिक्यतां मुकुटरत्नतां श्रष्टतामिति यावत्, आरोपितः प्रापितः कस्य पुत्रो भवानिति यावत् ।
इत्यादीति वचनवर्त्मनि वाक्पथे, जङ्कारः प्रकृष्टगामी, स्वामी जीवकः, इत्यादिप्रश्नपदवीं पूर्वोक्तप्रश्नमार्गम्, यथायोग्योत्तराक्षरैः समुचितोत्तरवर्णैः, लङ्घयामास समतिचक्राम ॥५३॥
विनयकन्दलितैरिति — विनयेन कन्दलितानि विनयकन्दलितानि तैर्नम्रतासमुद्भूतैः विमलोत्तरेरुज्ज्वलसमाधानैः, द्विगुणीकृतं कौतुकं कौतूहलं यस्य तथाभूतः, नरपतिर्दृढ मित्रः, नन्दनसंसदः पुत्रसमूहस्य, वरशासकलाया उत्तमकोदण्डवैदग्ध्याः, प्रतिपादनं प्रदानम्, चिरं दीर्घकालपर्यन्तम्, अयाचत प्रार्थितवान् । अस्मत्पुत्रान् धनुर्विद्यायां निपुणान्विधेहीति तं दृढ मित्रश्चिरं प्रार्थयामासेति भावः ||५४ ||
विज्ञायेति - प्रज्ञाशाली बुद्धिशोभी, नराधिपः, तदभिप्रायं जीवकाशयम्, विज्ञाय विदित्वा, अखिलानपि सर्वानपि कुमारान् पुत्रान् कौरवस्य जीवन्धरस्य, वशे निम्नतायाम्, चक्रे विदधे ॥५५॥
तन्विति -- तदनु तदनन्तरम्, कोदण्डं कार्मुकं, भिण्डिपालः (भिन्दिपालः), सृगः अश्मप्रक्षेपसाधनं रज्जुमयो यन्त्रविशेष इति यावत्, परिघः परिघातिनः - लोहबद्धहस्तप्रमाणलगुड इति यावत्, मुहरो घनः, परश्ववः कुठारः, एष द्वन्द्व : तदादिभिस्तत्प्रभृतिभिः परिष्कृता सहिता ताम्, “धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ' 'भिन्दिपालः सुगस्तुल्यौ परिघः परिघातिनः ' 'दुवणो मुद्गरवनौ' 'द्वयोः कुठारः स्वधितिः परशु परश्वधः' इति सर्वत्रामरः क्षोणीमित्र पृथिवीमित्र शरविभिस्तूणीरैः पक्षे जलधिभिः, अलङ्कृतां शोभिताम्, त्रिदुशनगरीमिव देवपुरी मित्र, सर्वतोमरसेवितां सर्वाणि च तानि तोमराणि चेति सर्वतोमराणि