________________
जीवन्धरचम्पूकाव्ये
शान्ततां नीते, निशितशस्त्रनिकृत्तकुञ्जरपदकच्छपाः, भल्लावलूनहयमल्लाननपयोजपरिष्कृताः मदवारणकर्णभ्रष्टचामरहंसावतंसिताः, कीलालवाहिन्यः समीकधरायां परःसहस्रमजायन्त ।
जित्वा किरातबलमेष यशःप्रसूनै
राशाविशालनयनाः सुरभीचकार । क्षीराम्बुदानिव सदा प्रवहत्पयोभिः
सिक्तान्तिका-पशुगणानहरच्च धीरः ।।३१।। पुरा खलु यः शम्बरारातिश्चापलालिजीवन्धरश्च जगति विश्रुतो बभूव, सोऽयमधुना शबरारातिश्चापलालिजीवन्धरश्च संवृत्त इति, न बिन्दुमात्रेणापि विशेषः । पूर्व सारसशरोऽयमधुना सरसशर इत्याकारतो विशेपेऽप्याकारसाम्यमखण्डितमुल्लसत्येवास्येति विचित्रमेतत् । अथ पौराणां हर्षातिरेक एतावानिति गगनतलप्रसारितवैजयन्तीभुजाभिबोधयदिव मोदोत्तरमेतत्पुरं प्रविश्य स्वयं विशिखाधारस्यापि विशिखाधेयतामास्कन्दतः सकलवयस्यमण्डलमध्यमध्यासीनस्य जीवप्रताप एव तेज एवानलो वह्निस्तस्मिन् , शान्ततां शान्तिम्, नीते प्रापिते सति, समीकधरायां युद्धभूमौ, परःसहस्रं सहस्रादप्यधिकाः, कीलालवाहिन्यो रुधिरनद्यः, अजायन्त प्रादुरभूवन् , कथंभूताः कीलालबाहिन्य इत्याह-निशितैस्तीक्ष्णैः शस्त्ररायुधैः निकृत्तानि च्छिन्नानि कुञ्जरपदान्येव हस्तिचरणा एव कच्छपाः कूर्मा यासु ताः, भल्लैः कुन्तैरवलूनानि खण्डितानि यानि हयमल्लाननान्यश्वारोहिवीरवदनानि तान्येव पयोजानि पद्मानि तैः परिष्कृताः शोभिताः, मदवारणानां मत्तमतङ्गजानां कर्णेभ्यः श्रवणेभ्यो भ्रष्टा ये चामरा एव प्रकीर्णका एव हंसा मरालास्तैरवतंसिताः शोभिताः।
जित्वेति-एप जीवन्धरः किरातबलं शवरसैन्यम्, जित्वा पराभूय, यशःप्रसूनैः कीर्तिकुसुमैः, आशा एव काष्टा एव विशालनयना आयताच्यस्ताः, सुरभीचकार सुगन्धयामास । च किञ्च, धीरो वीरः, सः, सदा सर्वदा, प्रवहत्पयोभिः प्रक्षरत्क्षीरैः, सिक्तान्तिकान् उक्षिताभ्यर्णान् , क्षीराम्बुदानिव दुग्धवारिद्वानिव, पशुगणान् गोसमूहान् , अहरत्प्रत्यावर्तयत् , रूपकोपमे । वसन्ततिलकावृत्तम् 'ज्ञेया वसन्ततिलका तभजा जगौ गः' इति लक्षणात् ॥ ३१ ॥
पुरा खल्विति-पुरा पूर्वम्, खलु निश्चयेन, यः शम्बरारातिर्मनसिजः काम इति यावत् 'शम्बरारिमनसिजः कुसुमेधुरनन्यजः' इत्यमरः, चपला एव चापलाश्चञ्चलास्ते च तेऽलयश्च भ्रमराश्चेति चापलालय स्तैर्जीवन्धरः प्रत्यञ्चाधरः, कामकोदण्डस्य भ्रमरमौर्वीकत्वं कविसमयसिद्धम्, इति च, जगति भुवने विश्रुतः प्रख्यातः, बभूव, सोऽयम् , अधुना साम्प्रतम्, शबरारातिभिल्लरिपुः, चापलाली धनुःशोभी चासो जीवन्धरा विजयासुतश्चेति चापलालिजीवन्धरश्च, संवृतो बभूव इतीत्थम्, न बिन्दुमात्रेणाप्यनुस्वारमात्रेणापि, विशेषो व्यतिरेकः । अयमेव काम इति भावः, पूर्वं प्राक् , अयं जीवन्धरः, सारसं सरसीरुहं शरो बाणो यस्य स काम इति यावत् 'सारसं सरसीरुहम्' इत्यमरः 'अरविन्दमशोकं च चूतं च नवमल्लिका' इत्यभिधानात्कामस्य कमलशरत्वं कविसमयसिद्धम्, अधुना साम्प्रतम्, सरसः सबलः शरो बाणो यस्य स सरसशरः, अस्तीति शेषः, इत्याकारतः संस्थानात् पक्षे आकारवर्णात्, विशेषेऽपि व्यतिरेकेऽपि, अस्य सत्यन्धरसुतस्य, अखण्डितमन्यूनम्, आकारसाम्यं संस्थानसादृश्यम्, उल्लसत्येव शुम्भत्येव, इत्येतद् विचित्रमाश्चर्यकरम् ।
अथ पौराणामिति-अथ विजयानन्तरम्, पौराणां नागरिकाणाम्, हर्षातिरेकः प्रमोदाधिक्यम्, एतावानियत्प्रमाणः, इत्येवम्, गगनतले नभस्तले प्रसारिता विस्तारिता वैजयन्त्यः पताका एव भुजा बाहवस्ताभिः बोधयदिव सूचयदिव, मोदोत्तरं हर्षप्रधानम्, एतत्पुरं राजपुराभिधानं नगरम्, प्रविश्य प्रवेशं कृत्वा, विशिखाधारस्यापि रथ्याधारस्यापि सतः, विशिखाधेयतां रथ्याधेयतामास्कन्दतः इति विरोधः, यो विशिखानामाधारः स एव तासामाधेयः कथं भवतीति विरोधः स्पष्टः । परिहारपक्षे स्वयम्, विशिखं हृदयं तस्याधारः समाश्रयस्तथाभूतस्यापि सतः विशिखाया रथ्याया आधेयतामास्कन्दतः, मार्गे गच्छत इति यावत् , सकलं च तद् वयस्यमण्डलञ्चेति सकलवयस्यमण्डलं निखिलमित्रसमूहस्तस्य मध्यम्, अध्यासीनस्याधितिष्टतः, जीवन्धरस्य सात्यन्धरेः शौर्य च स्थैर्य च धैर्यञ्चेति शौर्यस्थैर्यधैर्याणि शूरत्वस्थिरत्वधीरत्वानि